________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
१३ चान्त्यलोपः । अभृशो भृशो भवतीति भृशायते । सुमनायते । अच्चेरिति किम् । भृशीभवति । अत्र मा भूत् :___ भृश । शीघ्र । मन्द । चपल । पण्डित । उत्सुक । उन्मनस् । अभिमनस् । सुमनम् । दुर्मनस् । रहस् । रेहस् । शश्वत् । बृहत् । वेहत् । नृषत् । शुधि । अधर । प्रोजम् । वर्चस् । विमनस् । रभन् । हन् । रोहत् । शुचिस् । अजरम् । इति भृशादिः ॥
३०-लोहितादिडाज्भ्यः क्यप् ॥ भ० ॥३।१।१३ ॥ ___ अच्च्यन्तेभ्यो लोहितादिभ्यो डाजन्तभ्यश्च भवत्यर्थे क्यष् प्रत्ययो भवति । अलोहितो लोहितो भवति लोहितायते। लोहितायति। अपटपटा पटपटा भवति पटपटायति पटपटायतेः
लोहित । नील । हरित । पीत । मद्र । फेन । मन्द । आकृतिगणत्वात् । वर्मन् । निद्रा । करुणा । कृपा । इति लोहितादयः ॥ . ३१-भविष्यति गम्यादयः ॥ अ० ॥ ३।३।३॥
गम्यादयः शब्दा भविष्यति काले साधवो भवन्ति । ग्रामंगमी :
गमी । अागामी । प्रस्थायी । प्रतिरोधी । प्रतिबोधी । प्रतियोधी । प्रतियोगी। प्रतियायी । आयायी । भावी । इति गम्यादयः ॥
३२-षिद्भिदादिभ्योऽङ् ॥ अ० ॥ ३ । ३ । १०१ ॥ पिझ्यो भिदादिभ्यश्च धातुभ्यः स्त्रियामङ् प्रत्ययो भवति । जृष्-जरा । त्रपा । भिदादयः पठ्यन्ते :---
भिदा ( १ ) । छिदा । विदा । क्षिपा । गुहा गिर्योषध्योः ॥ श्रद्धा । मेधा । गोधा । पारा । हारा । कारा । क्षिया। भारा । धारा । रेखा । लेखा। चूडा । पीडा । वपा । वसा । सृजा ॥ क्रपेःसंप्रसारणं च ॥ कृपा । भिदा, विदारणे ॥ छिदा, द्वैधीकरणे ॥ आरा, शास्त्र्यम् ॥ धारा प्रपाते । इति भिदादयः ॥ ३३-वा०-संपदादिभ्यः विप् (२) ॥म ॥ ३।३।१०८॥ संपत् । विपत् । प्रतिपत् । आपत् । परिषत् । इति संपदादपः॥
(१)भिदादिगणे येप्वर्थ नियमः स महाभाष्यकारेणेव कृतोऽस्ति । विदारणादन्याथै भित्तिरिति सर्वत्रार्थान्तरे क्तिन् । - (२) संपदादिगणपठितेभ्य एव स्त्रियां विप् प्रत्ययो भवति । संपदादिश्चाकृतिगणो विज्ञेयः । कृत्यल्युटो बहुलमिति बहुलवचनात् क्तिन्नपि भवति । संपत्तिः। विपत्तिः । इत्यादि ॥
For Private And Personal Use Only