________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. गणपाठः॥
३४-भीमादयोऽसादाने ॥ भ. ॥ ३ । ४ । ७४ ॥ भीमादयः शब्दा उणादिस्था अपादानकारके निपात्यन्ते :भीमः । भीष्मः । भयानकः । वरुः । चरुः । भूमिः । रजः । संस्कारः । संक्रन्दनः । प्र. पतनः । समुद्रः । त्रुचः । उक् । खलतिः ॥ इति भीमादयः ।।
३५-अलायतष्टाप् ॥ भ० ॥ ४ । १।४॥ अनादिभ्यः प्रातिपदिकेभ्योऽकारान्ताच्चस्त्रियां टाप् प्रत्ययो भवति । अजा । देवदत्ता । अदितितपरकरणं तत्कालार्थम् । कीलालपाः, ब्राह्मणी । अत्र टाप् न भवति अजादिग्रहणं तु नात्यादिलक्षणस्य ङीषादेर्वाधनार्थम् :__ अना । एडका। चटका । अश्वा । मूषिका (१) । बाला । होड़ा । पाका । वत्सामन्दा । विलाता । पूर्वापहरणा । अपरापहरणा (२) ।। संभस्त्राजिनशणपिण्डेभ्यः फलात् ॥ संफला । (३) भत्रफला । अनिनफला। शणफला । पिण्डफला । सदच्काण्डप्रान्तशतैकेभ्यःपुष्पात् ॥ (४) सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा ॥ शूद्राचामहत्पूर्वा नातिः ॥ ( ५ ) कुञ्चा । उष्णिहा । देवविशा (१) ज्येष्ठा । कनिष्ठा । मध्यमा । (७) कोकिला। (८) मूलानमः । (१) अमूला । इत्यनादयः ॥
(१) अनादिभ्यः पञ्चभ्यो जातिलक्षणो यो ङीष् प्राप्तः स बाध्यते ॥ (२) बालादिभ्यः षड्भ्यो वयसि डीप् प्राप्तः ॥ (३) प्राभ्यां टिल्लक्षणो ङीप् प्राप्तः ।।
( ४ ) समादिभ्यः फलात् सदादिभ्यश्चपुष्पाद् बहुव्रीहौ यः पाककर्णेति सूत्रेण डीए प्राप्तः स बाध्यते ॥
( ५ ) अमहत्पूर्वाच्छूद्रशब्दाज्जातो टाप् । शूद्रा । योगे तु ङीषेव शूद्रस्य स्त्री शूद्री । अमहदिति किम् । महाशूद्री ॥
(६ ) क्रुञ्चादिभ्यस्त्रिभ्योऽप्राप्तष्टा विधिः ॥ (७) ज्येष्ठादिभ्यस्त्रिभ्यः पुंयोगे डीए प्राप्तोऽनेन बाध्यते ज्येष्ठस्य भार्या ज्येष्ठा॥ (८) कोकिलशब्दाज्नातिलक्षणो ङीष् प्राप्तः ॥ ( १ ) मूलशब्दाद् बहुब्रीही पाककर्णेति ङीष् प्राप्तः । नास्तिमूल मस्या सा अमूला
For Private And Personal Use Only