________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
उज्जहिजोडः । जहिस्तम्बः । उज्जहिस्तम्बः । (पाख्यातमाख्यातेन क्रियासातत्ये ) ॥ अश्नीतपिवता । पचतभृज्जता । खादतमोदता । खादताचमता । आहरनिवपा । श्रावपनिकिरा । उत्पचविपचा । भिन्द्धिलवणा । छिन्द्धिविचक्षणा । पचलवणा । पचप्रकूटा।(१) इतिमयूग्ठ्यसकादयः ॥
१५-याजकादिभिश्च ॥ भ• ॥ २ । २।९ ॥
षष्ठचन्तं सुबन्तं यानकादिभिः सुबन्तैः सह समस्यते स षष्ठीतत्पुरुषः समासो भवति । ब्राह्मणयाजकः । क्षत्रिययाजकः । प्रतिषेधबाधकमिदं सूत्रम् :--
याजक । पूनक । परिचारक । परिषेचक । परिवेषक । स्नातक । अध्यापक । उ. सादक । उद्वर्त्तक । हर्तृ । वर्तक । होतृ। पोतृ । भर्तृ । रथगणक । पतिगणक । इति याजकादयः ॥
१६-राजदन्तादिषु परम् ॥ ०।५।२।३१ ॥
राजदन्तादिषु परमुपसर्ननं प्रयोक्तव्यम् । पूर्वनिपातापवादः । दन्तानां राजा, राज. दन्तः । अनेन दन्तशब्दस्य पूर्वनिपातो बाध्यते । :___रामदन्तः । अग्रेवणम् । लिप्तवासितम् । नग्नमुषितम् । सिक्तसंमृष्टम् । मृष्टलुञ्चि तम् । अवक्लिन्नपक्वम् । अर्पितोप्तम् । उप्तगाढम् । उलूखलमुसलम् । तण्डुलकिण्वम् । दृषदुपलम् । पारग्वायनबन्धकी । चित्ररथबालीकम् । श्रावन्त्यश्मकम् । शूद्रायम् । स्नातकरानानौ । विश्वक्सेनार्जुनौ । अचिभ्रुवम् । दारगवम् । धार्थो । अर्थधर्मों । कामार्थो । अर्थकामौ । शब्दार्थों ( २ ) । अर्थशब्दौ । वैकारिमतम् । गजवाजम् । गोपालधानीपूलासम् । पूलासककरण्डम् । स्थूलपूलासम् । उशीरबीजम् । सिम्जास्थम् । चि. त्रास्वाती । भा-पती । जायापती (३) । जम्पती । दम्पती । पुत्रपती । पुत्रपशू । केराश्मश्रू । श्मश्रुकेशौ । शिरोबीजम् । सर्पिमधुनी । मधुसर्पिषी । प्रायन्तौ । अन्तादी गुणवृद्धी । वृद्धिगुणौ । इति रानदन्तादयः ॥
( १ ) अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः ।
(२) धादिषूभयमिति वात्तिकेन कृतद्वन्द्वयोर्द्वयोरपि पर्यायेण पूर्वनिपातः । अत्र गणान्तेऽपि केशादयो धादिषु द्रष्टव्याः ॥
( ३ ) अत्र जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । अस्मिन् गणे सर्वेषु । समासेषूपसर्जनमनुपर्सजनं वा निपात्यते । सर्वेषां च यथाप्राप्तानामपवादः ।।
For Private And Personal Use Only