________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
१३-वा०-समानाधिकरणाधिकारे शाकपार्थिवादीनामपसंख्यानमुत्तरपदलोपश्च (१)२ । १।६९ ॥
शाकभोनी पार्थिवः शाकपार्थिवः । कुतपसौश्रुतः । अनातोल्वलिः । यष्टिमौद्गल्यः । इत्यादि ।
१४-मयूरव्यसकादयश्च ॥ अ० ॥ २ । १ । ७२ ॥
मयूरव्यंसकादयः समुदायाः कृतसमासाः समानाधिकरण तत्पुरुषसंज्ञका निपात्यन्ते । चकारो निश्चयार्थः । परममयूरव्यंसकहातसमासान्तरं न भवति__ मयूरव्यंसकः । छात्रव्यंसकः (२)। काम्बोजमुण्डः । यवनमुण्डः । ( ३ ) छन्दसि । हस्तेगृह्य । पादेगृह्य । लाङ्गलेगृह्य । पुनर्दाय ॥ ( ४ ) एहीडादयोऽन्यपदार्थे ॥ एहीडम् । एहियवं वर्तते । एहिवाणिजाक्रिया । अपेहिवाणिना । प्रेहिवाणिजा। एहिस्वागता । अपेहिस्वागता। प्रेहिस्वागता । एहिद्वितीया । अपेहिद्वितीया । पोहकटा। अपोहकटा । प्रोहकर्दमा । अपोहर्कदमा । उद्धरचूड़ा । आहरचेला । आहरवसना । प्रा. हरवनिता । कृन्तविचक्षणा । उद्धरोत्सृजा । उद्धमविधमा । उत्पचविपचा । उत्पतनिपता । उच्चावचम् । उच्चनीचम् । अपचितोपचितम् । अवचितपराचितम् । निश्चप्रचम् । अकिंचनम् । स्नात्वाकालकः । पीत्वास्थिरकः । भुक्त्वा सुहितः । प्रोष्य पापीयान् । उत्पत्यव्याकुला । निपत्यरोहिणी । निषण्णश्यामा । अपेहिप्रघसा । इहपञ्चमी । इहद्विताया । जहिकर्मणा बहुलमाभीक्षण्ये कर्तारंचाभिदधाति ( ५ ) । जहिजोडः ।।
(१) शाकपार्थिवादिषु समानाधिकरणतत्पुरुषः समासो यथा स्यात् । पूर्वसमासे यदुत्तरपदं तस्य च लोपः । यथा दृष्टं विज्ञेयम् ॥
(२) मयूर इव व्यंसको धूतॊ मयूरव्यंसकः । छात्र इव व्यंसकः । कम्बोज इव मुण्डः । इत्युपमानसमासापवादोऽयं समासः ॥
(३ ) अतोऽचत्वारः शब्दाश्छन्दसि वेदविषये निपात्यन्ते ॥
( ४ ) त्वं यस्येडामन्नस्तुतिं वा-एहि प्राप्नुहि तत् एहीडम् । एवमेहियवादिषु यथाप्रयोगमर्थानुकूलः समासोज्ञेयः॥
(५) जहिक्रियाऽऽमीक्ष्ण्येऽर्थे स्वेनैव कर्मणा सह बहुलंसमस्यते समाससमुदायश्च कर्तृवाचको भवति । त्वंजोड़नहि, इति जहिजोड़स्त्वम् ।उज्जहिजोडः । जहिस्तम्बः । इत्यादि । आख्यातः क्रियाशब्द पाख्यातेनैव सह समस्यते । अश्नीत च पिबति च, इति समासे कृते प्रातिपदिकसंज्ञायां क्रियाविशेषणे टापू । प्रश्नीतपिक्ता । इत्यादि।
For Private And Personal Use Only