________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते भोजनप्रकरणम् ।
( ४८७ )
ओष्ठयुगं यदि दर्शितदंतो लेढि भवत्यशनं तदभीष्टम् || लेढि यदा पुनराननमध्यं नौष्ठयुगं विनिहंत्यशनं तत् ॥ ॥ २१९ ॥ मूत्रयिता यदि शोभनदेशे क्षीरिणि शाखिनि पक्कफले वा ॥ श्वा पुरतः पुरुषस्य तदानीमिष्टतरे भवतोऽशनपाने ॥ २२० ॥ दक्षिणभागगतो यदि लीढे सृक्कियुगं भषणो ऽभिमुखं च ॥ पश्यति तलभतेयमभीष्टं भोज्यमरण्यगतोऽपि मनुष्यः ॥ २२१ ॥
इति वसंतराजशाकुने श्वचेष्टिते भोजन प्रकरणमेकादशम् ॥ ११॥
॥ टीका ॥
पात्रं लेढि तत्र अशनं विषयुक्तं भवति ।। २१८ ।। ओष्ठयुगमिति । यदि दर्शितदंतः श्वा ओष्ठयुगं लेढि तदाऽभीष्टमशनं भवति यदा पुनः आननमध्यं लेढि नौयुगं तदा तदशनं विनिर्हति ॥ २१९ ॥ मूत्रयितेति ॥ यदि पुरुषस्य पुरतः श्वा शोमनदेशे तथा क्षीरिणि शाखिनि पक्कफले वा । क्वचित पुष्पफले वेति पाठः । मूत्रयि: ता स्यात्तदानीमशनपाने इष्टतरे भवतः ॥ २२० ॥ दक्षिणेति ॥ यदि दक्षिणभागगतो भषणः सृक्कियुगं लीढे अभिमुखं च पश्यति तदाऽरण्यगतोऽप्ययं मनुष्यः अभीष्टं भोज्यं लभते प्रामोति ॥ २२१ ॥
इति वसंतराजशाकुने टीकायां वचेष्टिते भोजनप्रकरणमेकादशम् ॥११॥
॥ भाषा ॥
ओष्ठयुगमिति ॥ जो श्वान दांत दिखावे और दोनों होटनकूं घाटै तो वांछितभोजन होय. जो फिर मुखके भीतर दोनों होठनकूं नहीं चाटे तो वांछितभोजन नाश करे ॥ २१९ ॥ मूत्रयितेति ॥ जो श्वान सुंदर स्थानमें और दूध जासूं निकसै वा शाखान पके हुयेकल वा पुष्यमें मूत्र करे तो भोजन जल दोनों योग्य शुभ जाननो ॥ २२० ॥ दक्षिणेति ॥ जेमने भागमें श्वान दोनों गलफाडेन चाटतो जाय संमुख देखे तो वनमें प्राप्तहुयोभी मनुष्य वांछित भोजनके योग्य प्राप्त होय ॥ २२९ ॥
- इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते भोजनप्रकरणमेकादशम् ११ ॥
For Private And Personal Use Only