________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८८) वसंतरानशाकुने-अष्टादशो वर्गः।
अथ प्रकरणोद्देशे वृत्तसंख्या च कथ्यते ॥ शुनोऽधिवासनं पूर्व वृत्तैः षोडशभिः स्मृतम् ॥ १॥ द्वितीयं राज्यलामाख्यं यधिकैर्दशभिस्तथा ॥ तृतीये वरणं वृत्तैर्दशभिश्चतुरुत्तरैः॥ ॥२॥ चतुर्थे देशलाभादि दशभिः पंचभिस्तथा ॥ पंचमं चाष्टभिर्वृत्तवृष्टिप्रकरणं स्मृतम् ॥३॥ युद्धप्रकरणं षष्ठं वृत्तानां त्रिंशता तथा॥षट्चत्वारिंशता वृत्तैः शुभज्ञानं च सप्तमे।। ॥४॥ लाभप्रकरणं वृत्तैर्विमृष्टं चाष्टमेऽष्टभिः ॥रोगिणां जीवितज्ञानं नवमे दशभिस्त्रिभिः॥५॥
॥टीका ॥
अथेति ॥ श्वचोष्टितकथनानंतरं मया प्रकरणोदेशो वृत्तसंख्या च कथ्यते । तत्र पूर्व शुनः अधिवासनप्रकरणं षोडशभिवृत्तः स्मृतम्॥१॥द्वितीयमिति॥द्वितीयं राज्यलामाख्यं प्रकरणंत्र्यधिकैर्दशभिः त्रयोदशभिर्वृत्तः स्मृतम्। तृतीये प्रकरणे च. तुरुत्तरैर्दशभिश्चतुर्दशभिः वृत्तैः वरणं प्रतिपादितम् ॥ २॥ चतुर्थे इति ॥ चतुर्थे प्र. करणे दशभिः पंचभिश्च पंचदशभिर्वृत्तैः देशलाभादिप्रकरणं प्रतिपादितम् । तथा अष्टभिर्वत्तैः पंचमं वृष्टिप्रकरणं स्मृतम् ॥ ३ ॥ युद्धेति ॥ तथा युद्धप्रकरणं षष्ठं वृत्तानां त्रिंशता स्मृतम् । सप्तमप्रकरणे शुमज्ञानाख्यं षट्चत्वारिंशता वृत्तः स्मृतम् ॥४॥ लाभेति ॥ अष्टमे प्रकरणे अष्टभिर्वृत्तः लाभप्रकरणं विमृष्टम्। नवमे प्रकरणे दशभिस्त्रिभिः त्रयोदशभिरित्यर्थः। वृत्तैः रोगिणां जीवितज्ञानं विचारितमिति
॥ भाषा ॥
अथेति ॥ श्वानकी चेष्टा कहके अगाडीमें प्रकरणनकी संख्या और प्रकरण प्रकरणके लोकनकी संख्या कहूंई. उनमें पहलो अधिवासन नाम पूजा प्रकरण सोले लोकनकरके कह्यो है ॥ १ ॥ द्वितीयमिति ॥ दूसरो राजलाभ नामकर प्रकरण तामें तेरहँ श्लोक है. तीसरो विवाह प्रकरण तामें चौदह श्लोक हैं ॥ २ ॥ चतुर्थेति ॥ चौथो देशलाभादि प्रकरण तामें पंद्रह श्लोक करे हैं. और पांचमो वृष्टि प्रकरण आठ श्लोकनकरके कोहै ॥ ३॥ युद्धेति ॥ छठो युद्धप्रकरण तीस श्लोकनकरके कह्यो है. सातमो शुभज्ञान नाम प्रकरण तामें छै चालीस लोक कहैहैं ॥ ४ ॥ लाभेति ॥ आठमो लाभ प्रकरण तामें आठ श्लोक
For Private And Personal Use Only