SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्वचेष्टिते यात्राप्रकरणम् । ( ४७३ ) व्रजेत्पुरस्ताद्यदि मूत्रयित्वा सदैव तत्सिध्यति कार्यमिष्टम् ॥ मिष्टान्नभोज्यं नवगोमये स्यान्मूत्रेण शुष्केऽपि च शुष्कभोज्यम् ॥ १७१ ॥ युग्मम् ॥ तुष्टः सुपुष्टः सुमना निरोग उत्साहयुक्तः परिपूर्णकायः ॥ सहेलखेलोऽभिमुखं प्रसर्पन्यक्षः सदैवाभिमतस्य सिद्ध्यै ॥ १७२ ॥ अन्नाज्यविष्ठामिषगोमयानि नवानि बिभ्रदने सदैव || वामोऽपसव्योऽप्यवलोक्यमानो मनोरथान्पूरयति ध्रुवं श्वा ॥ १७३ ॥ ॥ टीका ॥ Acharya Shri Kailassagarsuri Gyanmandir दीनि प्रतीतानि एतेषामितरेतरद्वंद्वः । तेषु ॥ १७० ॥ व्रजेदिति ॥ यदि एषु स्थलेश्वा कौलेयकः मूत्रयित्वा पुरः अग्रे व्रजंस्तदा सदैव कार्यमिष्टं सिद्धयति । नवगोमये मूत्रेण मिष्टान्नभोज्यं स्यात् । शुष्केऽपि च शुष्कभोज्यं स्यात् ॥ १७१ ॥ तुष्ट इति ॥ एवंविधो यक्षः अभिमुखं प्रसर्पन् सम्मुखमागच्छन्सदैव अभिमतस्य अभीष्टस्य सिद्धचैस्यात् । कीदृक्तुष्टः संतुष्टिमान् पुनः कीदृक् सुपुष्टः अकृशतनुः । पुनः कीदृशः सुमनाः पुनः कीदृशः अरोगः रोगनिर्मुक्तः। पुनः कीदृक् उत्साहयुक्तः उत्साहः आनंदविशेषः तेन युक्तः अन्वितः । पुनः कीदृक् परिपूर्णकायः परिपूर्ण: कायो अवयवः यस्य स तथा । पुनः कीदृक् सहेलखेल: सहेलं सलीलं खेल: क्रीडा यस्य स तथा ॥ १७२॥ अन्नेति ॥ नवानि अन्नाज्यविष्ठामिषगोमयानि अन्नं च आज्यं च आमिषं `च गोमयं चेतीतरेतरद्वंद्वः । वदने विभ्रत्श्वा सदैव वामोऽपि अपसव्योऽपि च विलोक्य ॥ भाषा ॥ मृत्तिका पुष्पफलादिक ॥ १७० ॥ ब्रजेदिति ॥ जो श्वान ये कहे जे स्थल इनमें मूत्र करके - मनुष्य के अगाडी गमन करे तो सदा वांछित कार्य सिद्ध करें और जो नवीन गोवरपे मूत्र करे तो मिष्टान्नभोजन करावे. सूखे गोवरपे सूत्र करे तो सूखो भोजन होय ॥ १७१ ॥ तुष्ट इति ॥ जो संतुष्टिमान् होय, पुष्ट होय, प्रसन्न होय, रोगरहित, आनंदयुक्त होय, परिपूर्ण देह जाको होय, लीला सहित क्रीडा करतो होय, ऐसो श्वान सम्मुख आवे तो वांछित सिद्धि होय ॥ १७२ ॥ अन्नेति ॥ नवीन अन्न, घृत, विष्ठा, गोबर इने मुखमें धारण For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy