________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४२) वसंतराजशाकुने-अष्टादशो वर्गः । उच्चं प्रदेशं भषणोऽधिरुह्य भषत्यभीक्ष्णं रविमीक्षमाणः ॥ यदा तदानीमचिरेण वृष्टिरम्भोदमुक्ता भवति प्रभूता ॥६४॥ न नीरदो मुंचति केनचिच्चेदोषेण चेष्टाप्रभवेण वृष्टिम् ॥ अचिंतितास्तत्र पतंत्यनाश्चौराग्निभीरुग्डमरप्रकाराः॥६६॥ इति वसंतराजशाकुने श्वचेष्टिते वष्टिप्र. पंचमम् ॥५॥ सैन्यद्वयस्येह समुद्यतस्य युद्धादिकं मंडलचोष्टितेन ॥आचार्यवों विधिवीक्षितेन योगीव भाव्यं सकलं ब्रवीति ॥६६॥
॥टीका॥
गर्त्य पाली अधिरुह्य कौलेयकः कायं विधुनोति तदा निश्चितं अब्दो:मेघः प्रावृषि वर्षाकाले कृषीवलप्रीतिकरौं वृष्टिं करोति।।६३।।उच्चमिति ॥ यदि भषणः उच्चं प्रदे शमधिरुह्य रविमीक्षमाणः अभीक्ष्णं वारंवारं भवति तदानीमम्भोदमुक्ता अचिरेण प्रभूता वृष्टिर्भवति ॥ ६४ ॥ नेति ॥ नीरदो मेघः चेष्टाप्रभवेण केनचिदोषेण चेदष्टिंन मुञ्चति तदा चौरामिभीरुग्डमरप्रकाराःअनर्थाःअचिंतिताःसन्निपतंति चौरश्च अमिभीश्च रुक्व डमरश्चेतीतरेतरबंदः । तत्र रुक् रोगः डमरः अशस्त्रयुद्धम्॥६५॥ इति वसंतरानशाकुने टीकायां श्वचेष्टिते वृष्टिप्रकरणं पंचमम् ॥ ५॥
सैन्यति ॥ आचार्यवर्यः इह विधिवीक्षितेन मण्डलचष्टितेन समुद्यतस्य सैन्यद्वयस्य भाव्यं भवितव्यं युद्धादिकं समस्तं सकलं ब्रवीति वक्ति । क इव योगीव ।
॥ भाषा॥
तटपै आयकर श्वान देहकू कंपायमान करे तो निश्चय मेघ वर्षाकालमें किषाणकी प्रीति करवेवाली वृष्टिः करें ॥ १३ ॥ उच्चमिति ॥ जो श्वान ऊंचे स्थानपै चढ करके वारंवार सूर्यकं देखतो जाय
और शब्द करे तो मेघ शीत्रही बहुत वर्षा करै ।। ६४ ॥ नेति ॥ श्वानकी कोई एक चेष्टातूं हुयो-जो दोष ताकरके मेघ वृष्टि नहीं करै तो चौर, अग्निभय, रोग, डमर नाम विनाशस्त्रको युद्ध थे विना चिंतमन कियेहुये अनर्थ होय ॥ १५ ॥
इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते वृष्टिप्रकरणं पंचमम् ॥५॥
सैन्येति ॥ जो शकुनमें मुख्य आचार्य हैं वे यामें विधिपूर्वक देखी हुई श्वानकी चेष्टा ता करके कोई युद्ध करवेकं ठाढी हुई दोनों ओरको सेनानको युद्ध, जय, भंगादिक,
For Private And Personal Use Only