________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४४० )
वसंतराजशाकुने - अष्टादशी वर्गः ।
दृष्ट्वा शशांक यदि निर्विशंकः करोति शब्दं मुदितांतरात्मा । तज्जागरूको विदधाति सौख्यं जनस्य सर्वे दुरितं निहंति ॥५७॥ इति वसंतराजशाकुने श्वचेष्टिते देशला •प्र• चतुर्थम् ॥४॥ वर्षानिमित्तं शुनकोत्तमस्य चेष्टा विशिष्टा विधिनोपदिष्टाः॥ याः शाकुनज्ञानविशारदैस्ताः शृण्वंतु शिष्टाः परमार्थ - तुष्टाः ॥ ५८ ॥ उद्धाट्य चेदक्षिणमक्षि लीढे नाभि स्वकी यामथ वाधिरूढः ॥ शेते गृहस्योपरि जागरूकस्तदांबुदोंबु क्षिपति प्रभूतम् ॥ ५९ ॥
॥ टीका ॥
संतुष्टचित्तः प्रसन्नहृदयः सुरवः सुशब्दः सुचेष्टः स यक्षः विवरप्रवेशे गर्तादिप्रवेशे सिद्धिं करोति । यस्तु पराङ्मुखो धावति स कृतांतरायः विहितविघ्नः सिद्धिहेतुर्न भवति ॥ ५६ ॥ दृष्ट्वेति ॥ यो जागरूकः कुक्कुरः शशांक दृष्ट्वा सुदितांतरात्मा हर्षितचित्तः सन्निर्विशंको भयरहितः शब्दं करोति तदा स जागरूकः जनस्य ख्यं विदधाति । सर्व दुरितं कष्टं निर्हति ॥ ५७ ॥
इति वसंतराजटीकायां श्वचेष्टिते देशलाभप्रकरणं चतुर्थम् ॥ ४ ॥
वर्षेति ॥ शकुनज्ञानविशारदैः याः शुनकोत्तमस्य वर्षानिमित्तं विशिष्टाश्चेष्टाः वि. धिना उपदिष्टाः परमार्थतुष्टाः शिष्टाः ताः शृण्वंतु ॥ ५८ ॥ उद्घाट्येति ॥ चेदक्षिणमक्षिट द्घाट्य स्वकीयां नाभि लीढे अथवा जागरूकः गृहस्योपरि अधिरूढः शेते तदा अंबुदः
॥ भाषा ॥
प्रसन्न हृदय होय, सुंदर चेष्टा करतो होय, तो गर्तादिक नाम गढेलेमें कहूं प्रवेश करेकी सिद्धि करै. जो श्वान विमुख होयकर दौडतो होय तो वा पुरुष विघ्न होय सिद्धि नहीं होय ॥ ९६ ॥ दृष्ट्वेति ॥ जो खान चंद्रमाकूं देखकरके प्रसन्नचित्त होय, निर्भय शब्द करे तो मनुष्यकं सौख्य देवे, और संपूर्ण कष्ट दूर करें ॥ ५७ ॥
इति वसंतराजशाकुने भाषादीजायां श्वचेष्टिते देशलाभादिप्रकरणं चतुर्थम् ॥ ४ ॥
वर्षा इति ॥ शकुन ज्ञानमें निपुण उन्ने जे उत्तम वानकी विशेषचेष्टा विधिकरके कही हैं. परमार्थमें तुष्टकर्ता और श्रेष्ठ तिने सुनो ॥ ५८ ॥ उद्घाट्येति ॥ जो जेममे नेत्रकूं. उघाड करके अपनीनाभिकं चांटे अथवा श्वान घरके ऊपर चढकर सोयजाय तो मेघ बहुत
For Private And Personal Use Only