________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते देशलाभादिप्रकरणम्। (४३९) अवामगात्रं यदि दक्षिणेन पादेन कंड्रयति सारमेयः ॥ वाणिज्यकं तत्सफलं ब्रवीति स्यायत्ययेऽसत्यफलं नराणाम् ॥५३॥ भृत्यस्य यः संग्रहणं विदध्यात्तथा नरो वांछति सेवितुं यः ॥ तयोः सुखं स्यादपसव्यचेष्टे दुःखं च यक्षे कृतवामचेष्टे ॥५४॥ विद्यासमारंभविधौ प्रशस्तः स मंडलो दक्षिणचेष्टितो यः ॥ यो वामचेष्टः स पुनर्नराणां पूर्वाजितामप्युपहंति विद्याम् ॥ ५५ ॥ संतुष्टचित्तः सुरवः सुचेष्टः करोति सिद्धिं विवरप्रवेशे ॥ पराङ्मुखो धावति यस्तु यक्षः कृतांतरायो न स सिद्धिहेतुः॥५६॥
॥टीका ॥ श्व शुभप्रदेशे मूत्रं करोति असौ उद्यमिनामुद्यमवतां हृदिस्थ हचिंतितं धनधान्यादिलाभं निःसंशयं ददाति ॥ ५२ ॥ अवामेति ॥ सारमेयः श्वा यदि दक्षिणेन पादेन अवामगात्र दक्षिणांगं कंडूयति तदा नराणां वाणिज्यकं फलं ब्रवीति । व्यत्यये सति असत्यफलं स्यात् । “वाणिज्यं तु वणिज्या स्यात्" इत्यमरः ॥ ५३ ।। भृत्यस्येति ॥ यः पुमान्मृत्यस्य सेवकजनस्य संग्रहणं विदध्यात् तथा यो नरः सवितुं वाञ्छति समीहते तयोःअपसव्यचेष्टे यक्षे शुनि सुखं स्यात् । कृतवामचेष्टे तु दुःखं स्यात् ॥ ५४ ॥ विद्योति ॥ यःमंडलःश्वा दक्षिणचेष्टः स विद्यासमारंभाविधौ विद्यायाः समारंभः प्रारंभः तस्य विधिविधानं तस्मिन्प्रशस्तः स्यात् । यः वामचेष्टःस पुनर्नराणां पूर्वार्जितामपि विद्या हंति विनाशयति ॥ ५५ ॥ संतुष्टेति ॥ यः यक्षः
॥ भाषा ॥ करे तो उद्यमी पुरुषनकू जो मनमें होय सो धनधान्यादिकनको लाभ करै ॥ १२ ॥ अवामेति ॥ जो श्वान जेमने पाँव करके जेमने अंगफू खुजाबैं तो मनुष्यनकू वाणिज्य फल देवे. जो बांये पाँवकर बाये अंगफू खुजावे तो वाणिज्य निष्फल होय ॥ १३ ॥ भृत्यस्येति ॥ जो पुरुष सेवककू राख्यो चाहै. और जो चाकर सेवा करवेकी वांछा करें, इन दोनोंनकं श्वान जेमने अंगमें चेष्टा करतो होय तो दोनोंनकू सुख होय. जो बाई चेष्टा करै तो दुःख होय ॥ ५४ ॥ विद्यति ॥ जो श्वान दक्षिण अंगकी चेष्टा करै तो विद्याके आरंभकी विधिमें शुभ है. जो श्वान वामचेष्टा करै तो फिर मनुष्यनकू पूर्व. जन्मकी संचय करीभी विद्यानाशकू प्राप्त होय जाय ॥ ५५ ॥ संतुष्टेति ॥ जो श्वान
For Private And Personal Use Only