________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२८) वसंतराजशाकुन-अष्टादशो वर्गः। यथावदुक्तान्यधिवासानानि बलिप्रदानानि शुनोऽधना तु ॥ तस्यैव चेष्टाफलमीप्सितेषु राज्यादिकार्येषु निरूपयामः ॥ ॥१६॥ कंडूयमानः खलु दक्षिणेन करेण लाभं भषणो ददाति ॥ प्रभावनंम्रीकृतराजचक्र राज्याभिषेकं वरपट्टबन्धम् ॥ १७ ॥ करेण कंडूयति दक्षिणेन यक्षो यदा वामकरं तदानीम् ॥ प्रभूतमातङ्गघटासमृद्धं ब्रूते समंतात्यथिवीपतित्वम् ॥ १८॥
॥ टीका ॥
एवंविधं कार्य भावि न वेति चित्ते मनसि निवेश्य स्थापयित्वा विचित्येति यावत् । भषणं विमुंचेत् । पिंडं संभक्ष्य स्थिरतां गतस्य निराकुलता प्राप्तस्य तस्य शुनः चेष्टादिकं निरूपणीयं विलोकनीयम् ॥ १५ ॥
इति वसंतराजटीकायां श्वचेष्टितेधिवासनप्रकरणं प्रथमम् ॥ १॥ यथेति ॥ मया शुनः अधिवासनानि बलिप्रदानानि यथावदुक्तानि । अधुना तु ईप्सितेषुराज्यादिकार्येषु तस्यैव शुन एव चेष्टादिकं फलं निरूपयामकथयामः॥१६॥ कंडूयमान इति ॥ दक्षिणेन करेण अपसव्येन हस्तेन कंडूयमानः कात कुर्वाणः भषणः लाभमधिकं फलं ददाति । कीदृशं लाभं राज्याभिषेकं राज्यस्याभिषको यस्मिन् । पुनः कीदृशं वरपट्टबंधं वरः प्रधानः पट्टबन्धों यस्मिस्तत् पुनः कीदृशं प्रभावनम्रीकृतराजचकं प्रभावेण नम्रीकृतं राजचकं यत्र तत्तथा ॥१७॥ कोणेति ॥ यक्षः श्वा दक्षिणेन करेण यदा वामकरं कंडयति तदानीं समंता.
॥ भाषा॥
विचार करके श्वानकू छोड़दे वो बलिपिंड भक्षण करके स्थिर होय जाय वाकी चेष्टादिक देखनो ॥ १५ ॥ इति श्रीवसंतराजभाषाटीकायां श्वानचेष्टितेऽधिवासनप्रकरणं प्रथमम् ॥१॥
यथेति ॥ मैंने श्वानके अधिवासन बलिदान ये यथायोग्य कहे. अब वांछित राज्यादिक कार्यमें श्वानके चेष्टादिकनके फल कहैंहैं ॥ १६ ॥ कंडूयमान इति ॥ जो श्वान . जेमने हाथ करके खुजावतो होय तो: राज्याभिषेक जामें और पट्टबंधन जामें और प्रभाव करके नम्र किये हैं राजानको समूह जामें ऐसो लाभ देवै ॥ १७ ॥ करेणेति ॥ जो
For Private And Personal Use Only