________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते राज्याधिकारप्रकरणम् । (४२९) उद्घाटयदक्षिणमक्षि यक्षो हस्तेन गृह्णात्यथ दक्षिणेन ॥ यस्याभिषेके स भवेत्स्वशक्त्या क्षितीशलक्षेक्षितपादपद्मः॥ ॥ १९॥ कौलेयको दक्षिणकर्णदेशं करेण कंडूयति दक्षिणेन ॥ यदा तदा जल्पति गीतवायविनोदयुक्तं पृथिवीपतित्वम् ॥ २० ॥ कंडूयते दक्षिणपाणिना चेत्स्वं सारमेयो वदनं तदानीम् ॥ भक्तैः प्रभूतैः सह भूमिपालैभॊज्यानि भोज्यानि चिरं भवति ॥२१॥
॥ टीका ॥
पृथिवीपतित्वं ब्रूते । कीदृश प्रभूतमातंगघटासमदं प्रभूताः प्रकृष्टाः ये मातगा द्विरदा तेषां घटा बहुघटनाः ताभिः समृद्धमुपचितमित्यर्थः । “बहूनां घटना घट" इति हैमः ॥१८॥ उद्घाटयेदिति ॥ यस्य राज्याभिषेकप्रभे यक्षः दक्षिणमाक्षि चक्षुः दक्षिणेन करेण उद्घाटयेत् अथ वा मृद्राति कचिगृहातीति पाठः । तदा स्वशक्त्या राजा भवेत् । कीदृशः क्षितीशलक्षेक्षितपादपद्मः क्षितीशलक्षैः ईक्षितं पादपद्मं यस्य एतादृशः । तथा कचिद्राज्याभिषेको भवति स्वशक्त्येति पाठोऽपि दृस्यते ॥१९॥ कौलेयक इति॥ यदा कौलेयकः श्वा दक्षिणकर्णदेशं दक्षिणेन करेण कंड्यति खनति तदा गीतवाद्यविनोदयुक्तं पृथिवीपतित्वं जल्पति । "अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः" इति हैमः॥२०॥कंडूयत इति ॥ सारमेयः कुक्कुरः दक्षिणपाणिना चेत्स्वं वदनं कंडूयते तदानी भक्तैः प्रभूतैः सह भूमिपाल ज्यानि भोक्तुं योग्यानि
॥ भाषा॥
श्वान जेमने हाथ करकै बायो हाथ खुजावतो होय तो बहुतसे हाथीनकी समृद्धि जाको ऐसो पृथिवीपति, राजा करै ॥ १८ ॥ उद्घाटयदिति ॥ राज्याभिषेकके प्रश्नमें जो श्वान जेमने नेत्रकू जेमने हाथ करके खोलतो होय वा ग्रहण करतो होय तो अनेकन राजा चरणकू नमन कर दर्शन करें एसो अपनी शक्ति करके राजा होय ॥ १९ ॥ कौलेयक इति ॥ जो कौलेयक जेमने हाथ करके जेमने कर्णकं खुजावतो होय तो गीत, वाद्य, विनोद इनकरके सहित पृथ्वीको पति होय ॥ २० ॥ कंडूयत इति ॥ जो श्वन जेमने हस्त करके अपने मुखकू खुजावतो होय तो. बहुतसे भक्तन करके सहित राजानकरके
For Private And Personal Use Only