________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४१२) वसंतराजशाकुने-सप्तदशो वर्गः। दिश्युत्तरस्यामुदिते दिनेशे पल्ली रटंती द्रविणागमाया|मित्रागमाय प्रथमे च यामे हुताशभीत्यै दिवसस्य मध्ये ॥२०॥ अथापराहेभिमतोऽभ्युपैति प्रियो जनोऽभ्येति च वासरांते ॥ निशामुखे शिष्टसमागमः स्याद्यामे कलिः स्याद्विरुतेन पल्लयाः ॥ २१ ॥ निधानलाभः प्रहरे द्वितीये स्यान्चौरभीतिःप्रहरे तृतीये ॥ निशावसानेऽपि च भाषमाणे स्यात्कुडयमत्स्ये विपुला समृद्धिः ॥२२॥ प्रातर्दिशीशाननिषेवितायां पल्लीरुतैः सिध्यति चिंतितोऽर्थः ॥ दिनाद्ययामे स्वजनोऽभ्युपैति वृद्धिर्भवेद्वासरमध्यभागे ॥ २३॥
॥टीका ॥ दिशीति ।। उदिते दिनेशे उत्तरस्यां दिशि पल्ली रटंती द्रविणागमाय भवति। प्रथमे च यामे उत्तरस्यां रदंती पल्ली मित्रागमाय स्यात् । तथा दिवसस्य मध्ये मध्याह्नका. ले उत्तरस्यां रटंती पल्ली हुताशभीत्यै अमिभयाय भवति ॥ २०॥ अथेति ॥ अथ अपराहे तृतीयपहरे उत्तरस्यां पल्लयाः विरुतेन अभिमतः अभ्युपैति । वासरांते च सायमुत्तरस्यां दिशि पल्लया विरुतेन प्रियो जनः अभ्युपैति। तथा निशामुंखे प्रदोषे उत्तरस्यां पल्लया विरुतेन शिष्टसमागमः स्यात् । निशायाः आये यामे उत्तरस्यां पल्लयाः विरुतेन कलिः स्यात् ॥ २१॥ निधानेति ॥ निशायाः प्रहरे द्वितीये उत्तरस्यां कड्यमत्स्ये भाषमाणे निधानलाभः स्यात् । निशायाः प्रहरे तृतीये उचरस्यां कुड्यमत्स्ये भाषमाणे चौरभीतिः स्यात् । निशावसानेपि च उत्तरस्यां कुड्यमत्स्ये भाषमाणे विपुला समृद्धिः स्यात् ॥ २२ ॥ प्रातरिति ॥ प्रातः
॥ भाषा॥ बांछितफलको लाभ हेय ॥ १९ ॥ दिशीति सूर्यके उदय समयमें पल्ली उत्तरदिशामें बाल तो द्रव्यको आगमन होय. दिनके प्रथम प्रहरमें पल्ली बोळे तो मित्रको आगमन होय. दूसरे प्रहरमें उत्तरमें बोले तो अग्निको मय होय ॥ २० ॥ अथेति ॥ तीसरे प्रहरमें उत्तरमें बोले तो वांछित पुरुष आवे चौथे प्रहरमें उत्तरमें बोले तो प्यारो जन भावे और प्रदोष समयमें उत्तरमें बोले तो उत्तम जनको आगमन होय. रात्रिके प्रथम प्रहरमें उत्तरमें बोले तो कलह होय ॥ २१ ॥ निधानेति ॥ रात्रिके दूसरे प्रहरमें उत्तरमें बोले तो धनको लाभ होय. रात्रिके तीसरे प्रहरमें उत्तरमें बोले तो चौरको भय होय, चौथे प्रहरमें उत्तरमें बोले तो बहुत समृद्धि होय ॥ २२ ॥ प्रातरिति ॥ प्रभात कालमें ईशान
For Private And Personal Use Only