________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४११ )
पल्लीविचारप्रकरणम् । स्याच्चौरवार्ता दिशि मारुतस्य रुतैः प्रभाते गृहगोधिकायाः ॥ अभ्येति भृत्यः प्रहरे प्रवृत्ते मध्यंदिने भूपतिरभ्युपैति ॥ १७ ॥ विद्वान्समभ्येत्यपराह्णकाले विघ्नात्परं दूत उपैति सायम् ॥ वृद्धिः प्रदोषे प्रहरे द्वितीये सिध्यत्यभीष्टं रटितेन पल्लयाः ॥ १८ ॥ यामे तृतीये नियतं निशायाः शुभावहा काप्युपयाति वार्ता ॥ निशावसानेऽभिमतार्थलाभः स्यात्कुड्यमत्स्यारटितेन पुंसाम् १९
॥ टीका ॥
मायां रति: निधान लाभः स्यात् । कुड्यमत्स्ये निशावसाने प्रतीच्यां रटति सति वपुषः अवसानं विनाशः स्यात् ॥ १६ ॥ स्यादिति ॥ प्रभाते प्रगे मारुतस्य दिशि वायुकोणे गृहगोधिकायाः रुतैः शब्दैः चैौरवार्ता स्यात् । तथा प्रहरे प्रवृत्ते मारुतस्य दिशि गृहगोधिकायाः रुतैर्भृत्यः सेवकः अभ्येति समायाति । मध्यंदिने मारुतस्य दिशि गृहगोधिकाया रुतैः भूपतिरभ्युपैति ॥ १७ ॥ विद्वानिति || अपराहकाले तृतीयप्रहरे मारुतस्य दिशि पल्लचा रटितेन विद्वान्कश्चित्पंडितः समभ्येति । सायं संध्या मारुतस्य दिशि पल्लया रटितेन विन्नात्परं विघ्नानंतरं दूतः उपैति आगच्छति । प्रदोषे मारुतदिशि पल्ल्या रहितेन वृद्धिर्भवति । रजन्याः प्रहरे द्वितीय मारुतदिशि पल्लया रटितेन अभीष्टं सिध्यति ॥ १८ ॥ यामे इति ॥ निशायाः तृतीये या मारुतदिशि पल्ल्या रटितेन शुभावहा नियतं कापि वार्ता उपयाति । निशावसाने मारुतदिशि पुनः कुड्यमत्स्यारटितेन पुंसामभिमताथलाभः स्यात् ॥ १९ ॥
॥ भाषा ॥
लाभ होय. चौथे प्रहरमें पश्चिममें बोले तो देहको नाश होय ॥ १६ ॥ स्यादिति ॥ प्रभातकाल में वायुकोण में पल्ली बोलै तो चौरकी वार्ता होय. दिनके प्रथम प्रहरमें वायुकोण में बोले तो चाकर सेवक आवै दूसरे प्रहरमें मारुतकोणमें बोले तो राजा आवै ॥ १७ ॥ विद्वानिति ॥ तीसरे प्रहरमें वायव्य दिशामें बौले तो कोई पंडित विद्वान् आवै. सायंसंध्या में वायव्यकोणमें बोले तो पहले विघ्नं होय पीछे कोई दूत आवे और रात्रिके प्रथम प्रहरमें वायव्यकोणमें बोलै तो वृद्धि होय. रात्रिके दूसरे प्रहरमें वायव्यकोणमें बोले तो वांछित सिद्धि होय ॥ १८ ॥ यामे इति ॥ रात्रिके तीसरे प्रहरमें वायव्य कोण में बोल तो कोई शुभकी करनेवाली वार्ता आवे चौथे प्रहर में वायव्यकोणमें बोले तो पुरुषनकूं.
For Private And Personal Use Only