________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०२) वसंतराजशाकुने-घोडशो वर्गः।
अत्यर्थपूर्णे जलकुक्कसाभ्यां ग्राह्यं गृहे नेष्टमथाप्यनिष्टम् ॥ स्तोकस्थितावस्करनीरदेशे पिपीलिकानां शकुनं गवेष्यम् ॥ ॥२॥ स्थूलास्तथा याः कपिलाः कदाचिदृग्गोचरं यांति घृतेटिकाख्याः॥ विज्ञेन तासां शकुनं गवेष्यं पिपीलिकानामिह नापरासाम् ॥३॥ विनिर्गताः प्राग्गृहगर्भभूमेः कुर्वति शून्यं भवनं घृतेव्यः ।।अग्नेर्विभागे स्वजनागमाय भवंति वृद्धयै दिशि दक्षिणस्याम् ॥४॥ पयोधरो वर्षति यातुधान्यां
योषिद्धनाप्तिर्दिशि पश्चिमायाम् ॥ विहाय गेहं गृहिणी प्रया- ति विनिर्गताभिर्दिशि मारुतस्य ॥ ५॥
॥ टीका ॥ मनिमम्मतेन मनिप्रणीतेन ॥ १ ॥ अत्यर्थेति ॥ जलकुक्कसाभ्यां पानीयतुषाभ्यां अत्यर्थपूर्णे गृहे इष्टं शुभमथाप्यनिष्टमशुभ शकुने न ग्राह्यं स्तोकस्थितावस्करनीरदेशे स्तोकस्थितः अवस्करः अवकर कचर इति प्रसिद्धः नीरं च जलं च यत्र एवंविधे देशे पिपीलिकानां कीकानां शकुनं गवेष्य गवेषणीयम् ॥ २ ॥ स्थूला इति ॥ याः स्थूलास्तथा कपिलाः पिंगलाः घृतेटिकाख्या वृतेटिका इति आख्या अभिधानं यासां ताः तथोक्ताः कदाचिदृग्गोचरं यांति विज्ञेन पंडितेन तासां पिपीलिकानामिह शकनं गवेष्यम् अपरासां न गवेष्यमित्यर्थः ॥३॥ विनिर्गता इति । घृतेश्यः प्राक्पूर्वस्यां दिशि गृहगर्भभूमेः गृहमध्यभूमेः विनिर्गताः निमृता भवनं शून्यं कुर्वति अग्रेविभाग आग्नेय्यां गेहस्येति शेषःनिर्गता स्वजनागमाय भवंति। गृहस्य दक्षिणस्यां दिशि निःसृताः वृद्ध्यै भवंति॥४॥ पयोधर इति ॥ यातुधान्यां नैऋत्यां विदिशि वि.
॥ भाषा ॥ इनको है ॥ १ ॥ अत्यर्थेति ॥ जल और तुष इन करके अत्यंत भरो हुयो घर वामें शुभ अशुभ शकुन नहीं देखनो. और थोडी जगहमें कूडोकचरो जल ये होय तहां कीडीनको शकुन देखनो योग्य है ॥ २ ॥ स्थला इति ॥ स्थूल होय, कपिल वर्ण जाको होय, घतेठिकावा घीमेलिये जिनके नाम ऐसी दीख जाय तो उनकी डीनको शकुन ढूंढनो योग्यहै,
औरनको शकुन नहीं देखनो ॥ ३ ॥ विनिर्गता इति ॥ घृतेटिका घरकी मध्यभूमिसं पूर्व दिशामें निकसै तो सूनो घर करै. जो घरके अग्निकोणमें निकसै तो वजन जनको आगम करै, और घरके दक्षिणदिशामें निकसै तो वृद्धि करै ॥ ४ ॥ पयोधर इति ॥
For Private And Personal Use Only