________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलारुतेऽनुक्रमप्रकरणम्। (३७७ ) द्वितीयं स्वरनामाख्यं वृत्तः षोडशभिः स्मृतम् ॥ तृतीये दश वृत्तानि पंचस्वरबलाभिधे ॥ २॥ स्मृतं धेन्वादिसंज्ञाख्ये चतुर्थे वृत्तसप्तकम् ॥ पंचमे पंच वृत्तानि केवलस्वरनामनि ॥३॥ त्रयोदशैव षष्ठे च द्विसंयोगस्वराभिधे ॥ त्रिसंयोगस्वराख्येतु सप्त वृत्तानि सप्तमे ॥ ४॥ चतुःस्वराणां संयोगे द्विचत्वारिंशदष्टमे ॥ संकीर्णे नवमे चैकचत्वारिंशत्प्रकीर्तिताः ॥५॥ दशमेऽष्टादशोक्तानि शुभचेष्टाफलाभिधे ॥ एकादशे तु यात्राख्ये एकोनविंशतिस्तथा ॥६॥ एवं प्रकरणान्यस्मिन्नेकादश समासतः॥शतद्वयं तु वृत्तानां शाकुने पिंगलारुते ॥७॥
॥टीका॥ नज्ञाने वृत्तद्वाविंशतिः द्वाविंशतिः श्लोका इत्यर्थः । मता ॥ १॥ द्वितीयमिति ॥ द्वितीयं स्वरमात्राख्यं षोडशभिः स्मृतम्।तृतीये पंचस्वरबलाभिधे दश वृत्तानि स्युः ॥२॥ स्मृतमिति ॥ धेन्वादिसंज्ञाख्ये चतुर्थे वृत्तसप्तकं भवति । केवलस्वरनामनि पंच वृत्तानि स्युः ॥ ३॥ त्रयोदशेति ॥ द्विसंयोगस्वराभिधे षष्ठे त्रयोदशैव वृत्तानि त्रिसंयोगस्वराख्ये तु सप्तमे सप्तवृत्तानि स्युः ॥ ४ ॥ चतुरिति ॥ चतुर्योगस्वरेष्टमे वृत्तानि द्विचत्वारिंशत्संख्यानि स्युः।संकीर्णे नवमे च एकचत्वारिंशत्प्रकीर्तिताः॥५॥ दशम इति ॥ दशमे शुभचेष्टाफलाभिषेष्टादश वृत्तानि । यात्रासंख्ये एकादशे तु एकोनविंशतिवृत्तानि स्युरित्यर्थः ॥६॥ एवमिति ।। एवममुना प्रकारेण अस्मिन्स
॥ भाषा॥ अधिवासन नाम प्रकरण तामें बाईस श्लोक हैं ॥ १ ॥ द्वितीयमिति ॥ दूसरो स्वर मात्रानाम प्रकरण तामें षोडश श्लोक कहेहे ॥ २ ॥ स्मृतमिति ॥ धेन्वादिसंज्ञा नाम चौथो प्रकरण तामें सात श्लोक कहेहैं. पांचमो केवलस्वर नाम प्रकरण तामें पांच श्लोक हैं ॥ ३ ॥ त्रयोदशेति ॥ छठो द्विसंयोगस्वर नाम प्रकरण तामें त्रयोदश श्लोक हैं. सातवो त्रिसंयोगस्वर नाम प्रकरण तामें सात श्लोक हैं॥ ४ ॥चतुरिति ॥ चतुर्योगस्वर नाम आठमो प्रकरण तामें बयालीस श्लोक कहेहैं. और नौमो संकीर्ण प्रकरण तामें इकतालीस श्लोक कहैहैं ॥ ५ ॥ दशम इति ॥ दशमो शुभचेष्टा फल नाम प्रकरण तामें अठारे श्लोक कहेहैं. और ग्यारवों यात्राप्रकरण तामें उगनीस श्लोक हैं ॥ ६ ॥ एवमिति ॥ या _१ फलितार्थकथनमिदं विग्रहस्तु वृत्तानां छन्दसां द्वाविंशतिरित्येव कर्मधारये तु वृत्तशब्दस्य पूर्व श्रवणा भावः स्याद्विशेष्यत्वात्।
For Private And Personal Use Only