________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३७२ )
वसंतराजशाकुने - त्रयोदशो वर्गः ।
वाणिज्य सेवारणतीर्थविद्याचौर्यादिकार्येषु भवंति यात्राः ॥ तासां यथा भाव्यशुभाशुभं च सम्यग्बुधो वेत्ति यथाभिदध्मः ॥ १८२ ॥ स्थानं त्यजत्युन्नतमाश्रयेद्वा यात्रा भवेत्तत्र तु नान्यथा स्यात् ॥ प्रश्न तु गत्या गमनार्थ उक्तो मौनी स्थिरस्तत्प्रतिषेधनाय ॥ १८३ ॥ गत्वा दिशं यामशनं गृहीत्वा प्रत्येति पिंगः श्रयति द्रुमं च ॥ पांथोऽपि तामेव दिशं त्राजत्वा भूत्वा कृतार्थः स्वग्रहानुपैति ॥ १८४ ॥ भक्ष्यं ग्रहीतुं चलितुं विगस्तत्प्राप्य तत्रैव तथोपभुज्य ॥ आयाति चेतत्पथिकोऽप्युपाये भुक्ता च वित्तं गृहमभ्युपैति ॥ १८५ ॥
॥ टीका ॥
वाणिज्येति ॥ वाणिज्यं व्यापारः सेवा नृपादीनां रणः संग्रामः तीर्थ शत्रुजय प्रभृति विद्या शास्त्राभ्यासः चौर्य परद्रव्यापहारः इत्यादिकार्येषु नृणां यात्राः गमनानि भवति तासां यथा भाग्यं भविष्यमाणं शुभं चकारादशुभं च सम्यग्बुधो वेत्ति तथा वयमभिदध्मः ॥ १८२ ॥ स्थानमिति ॥ यदा स्थानं त्यजति उन्नतं वृक्षमाश्रयेा तदा यात्रा भवेत् प्रश्रे कृतेऽन्यथा स्पात्तत्र गत्या गमनार्थ उक्तः मौनी स्थिरः स्यात्तदा तत्प्रतिषेधनाय भवति ॥ १८३ ॥ गत्वेति ॥ यां दिशं गत्वाऽशनं गृहीत्वा पिंगः प्रत्येति द्रुमं च यति पांथोऽपि तामेव दिशं ब्रजित्वा कृतार्थो भूत्वा स्वगृहानु पैति ॥ १८४ ॥ भक्ष्यमिति ॥ भक्ष्यं ग्रहीतुं विहंगश्चलितः तत्प्राप्य तत्रैव उपभुज्य वेदायाति तत्पथिकः तत्र धनमुपार्ज्यं भुक्त्वा च वित्तं गृहमभ्युपैति ॥ १८५ ॥
॥ भाषा ॥
वाणिज्येति ॥ व्यापार, राजादिकनकी सेवा, चाकरी, संग्राम, तीर्थ, विद्या पढवे, चौर्यादिक कार्य इनमें मनुष्यनकी यात्रा, अर्थात् गमन होय हैं उनमें शुभ अशुभ होय के योग्य जैसे जानवेमें आवे तैसे हम कहे हैं ॥ १८२ ॥ स्थानमिति ॥ जो पिंगल स्थानकूं त्याग करे और ऊंचे वृक्षपै जायबैठे तो यात्रा होय. फिर यात्रा निष्कल नहीं जाय प्रश्न करे तो अन्यथा होय ये शकुनगति आगमनमेंही कह्यो है जो मौनी और स्थिर होय तो यात्रादिकके निषेवके अर्थ है || १८३ ॥ गत्वेति ॥ पिंगल जा दिशामें जाय भोजन लेकरके पीछो आत्रे फिर वृक्षपै जाय बैठे तो यात्रा करनेवाली बाई दिशा में जायकर कृतार्थ होय करके अपने घरकूं आवै ॥ १८४ ॥ भक्ष्यमिति ॥ जो विहंग भक्ष्य लेवेकं जाय
For Private And Personal Use Only