________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरतेअधिवासनप्रकरणम् । ततोऽर्चयित्वाऽखिलतोरणानि विवेष्टयेत्पांडुरवस्त्रसूत्रैः ।। उदीरयेन्मंत्रमथार्जुनस्य नामानि नामानि च कृष्णिकायाः॥ ॥२१॥ अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः ॥ बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥ २२॥ इत्यर्जुननामानि ॥ अथ पोदकीनामानि ॥ श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटका तथोमा ॥ त्वं पोदकी पांडविका त्वमेव त्वं कृष्णिका त्वं सितपक्षिणी च ॥ २३ ॥ त्वं ब्रह्मपुत्री शकुनैकदेवी धनुर्धरी पांथसमूहमाता ॥ प्रत्यशरूपा भगवत्यमोघे नमोऽस्तु तुभ्यं कुरु मेऽर्थसिद्धिम्॥२४॥
॥ टीका ॥
ततइति ॥ ततः स्वकार्यनिवेदनानंतरं अखिलतोरणानि अर्चयित्वा पांडुरवस्त्र सूत्रैः श्वेतवसनसूत्रैः विवेष्टयेत् ततः मंत्रमुदीरयेत् उच्चारयेत् अर्जुनस्य नामानि कृष्णिकायाश्च पोदक्या नामान्युच्चारयेदित्यर्थः ॥ २१ ॥ अथार्जुननामान्याह अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः गतार्थान्यर्जुननामानि ॥ २२ ॥ अथ पोदकीनानानि श्यामा इति । श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटिका तथोमा ॥ त्वं पोदकी पांडविका त्वमेव त्वं कृष्णिका त्वं सितपक्षिणी च ॥ २३ ॥ त्वं ब्रह्मपुत्री शकुनैकदेवी धनुर्धरी पांथसमूहमाता ॥ प्रत्यक्षरूपा भगवत्यमोघे नमोस्तु तुभ्यं कुरु मेसि
॥ भाषा ॥
कैर ।। २० ॥ तत इति ॥ तारीछे सबतोरणनको अर्चन करके श्वेतवस्त्र सूत्रकर वेष्टन कर फिर पूर्व कयो जो मंत्र और अर्जुनके कृष्णिकाके नाम तिनै उच्चारण कर ॥ २१ ॥ अर्जुन इति ॥ अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः । बीभमुर्विजयः कृष्णः स. व्यसाची धनंजयः ॥ ये दशनाम अर्जुनके हैं ॥ २२ ॥ श्यामेति ॥ श्यामा वराही शकुनी कुमारी दुर्गा देवी चटिम्म उमा तुमही पादकी तुमही पांडविका तुमही कृष्णिका हो, तुमही श्वेतपक्षिणी हो ॥ २३ ॥ त्वंब्रह्मपुत्रीति ॥ तुमही ब्रह्मपुत्री हो, तुमही शकुनको एक देवी हो तुम धनुर्द्धरी पांथसमूहको माताहो तुमप्रत्यक्षरूपा हो हे भावति हे अमोघे
For Private And Personal Use Only