________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१००)
वसंतराजशाकुने-सप्तमो वर्गः। स्नातः प्रशांतः कृतदेवकार्यः शुक्लांशुकः कल्पितमंगलाशीः ॥ मौनी समं शाकुनिकेन यायायामेंतिमे पश्चिमतोरणांतम् ॥ १४॥ शिलातले तत्र विधाय हेम्ना रौप्येण पिष्टैरथवा सुपिष्टैः ॥ निवेशनीयः कपिलो महर्षिः श्यामायुगं चाष्टदले सरोजे॥१५॥ ततोऽनुलिपेत्सहलोकपालैः क्रमेण सर्वानपि चंदनेन ॥ आच्छाद्य शुक्लाहतवस्त्रयुग्मैः शुक्लेन सूत्रेण विवेष्टयेत्तान् ॥१६॥
॥ टीका ॥ स्नातइति ॥ शाकुनिकेन समम् अंतिम यामे तोरणपश्चिमांते यायाद्गच्छेत् । कोदशः स्रात इति प्रथमं कृतस्नानः प्रशांत इतिक्रोधराहित्येन शीतलता प्राप्तः कृतदेवकार्य इति कृतं देवपूजाप्रभृति येन स तथा शुक्लांशुक इति शुक् श्वेतं अंशुकमंवरं यस्य सः। "वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्"इत्यमरः।तथा कल्पितमंगलाशीरिति कल्पिता रचितामंगलार्थमाशिषोयस्य स तथा मौनीति मौनवान्पुरुष इति शेषः १४॥ शिलातल इति॥तत्र शिलातले शिलापीठेहेना सुवर्णेन रूप्येणरजतेन अथवा सुपिरैः गोधूमादिचूर्णैः कपिलमुनिमूर्ति विधाय तत्र कपिलमुनिरिति मूर्ति मूर्तिमतोरभेदोपचारात् ज्ञेयं निवेशनीयः स्थाप्यः। श्यामायुगं च निवेश्यं स्थापनीयं कस्मिन्पूर्वोतरीत्या शिलोपरि विहिते अष्टदले सरोजे कमले ॥१५॥ तत इति ॥ ततः स्थापनानंतरं सर्वानपि चंदनेन अनुलिंपेत्। कैः लोकपालैः सह पुनः किं कुर्यात् शुक्लाहतवस्त्रयुग्मैरिति शुक्लानि श्वेतानि अहतानि अखंडितानि सदृशानि वा यानि व
॥ भाषा॥
स्नातं इति ॥ म्रानकरके शांतरूप शील स्वभाववान् होय संध्योपासन पूजा सेवा का लवत्र धारणकरके मंगलके अर्थ आशिषकर मौनधार जाको शकुन होय लावू नको नके पिछले प्रहरमें तोरणके पश्चिमद्वारके समीप जाय ॥ १४ ॥ शिलातल इति!! दिलाके ऊपर अष्टदलकमल करके ताकमलमें सुवर्णकी अथवा चांदकिी अथवा चूनकी अथवा कपिलमुनिकी मूर्ति बनायकरके स्थापन कर, और श्यामाको युगल सास स्थापन करे ।। १५ ॥ ततइति ॥ स्थापन लिये पीछे लोकपाल देवतानकारके सहित कर लेपन
For Private And Personal Use Only