________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुतेअधिवासनप्रकरणम्। क्षीणचंद्रतिथिदुःसहानिलं दृषितं धरणिकंपनादिना ॥ पूर्वबज्जलदसंकुलांबरं वर्जयेच्छकुनदर्शने दिनम् ॥ १३॥
॥ टीका॥
प्रतीता लमं मेषप्रभृति तेषां शुद्धिःस्यात् । पुनः ताराबलं यदा भवति तारास्वरूपं चैवम् “जन्मसंगणयेदादौ चंद्रप्रक्षावधि पुनः। नवभिस्तु हरेद्भागं शेषास्तारा विनिदिशेत्"॥ तत्रोत्तमा वेदषण्मुखास्यांकप्रमिताःमध्यमाश्चन्द्रलोचनवसुप्रमिताः जघन्याः वह्निसागरकामवाणप्रमिताः। यदा पुनः चंद्रमसो बलं भवति तद्वलं त्वेवं स्वजन्मराश्यपेक्षया द्वादशराशिस्थचंद्रफलं यथा। “जन्मस्थः कुरुते पुष्टिं द्वितीये नास्ति नितिः । तृतीये राजसम्मानं चतुर्थे कलहागमम् ॥ १॥ पंचमे च पतिभ्रंशः षष्ठेप्यर्थसमागमः॥ सप्तमे चातिपूजा स्यादष्टमे प्राणसंशयः॥२॥नवमे क्लेशबाहुल्यं दशमे कार्यसिद्धयः॥एकादशे जयोनित्यं द्वादशे मरणं ध्रुवम् ॥३॥शुक्लपक्षे द्वितीयश्च पंचमो नवमःशुभः॥इति ताराचंद्रादौ तथा कालचंद्रोऽपित्याज्यः तत्स्वरूपं त्वेवम्। "क्रमाचंद्र १ वाणां५ क९ चक्षू २ रसा ६श्व दशा१न्य ३ श्व७ वेदाष्ट ८रुद्रा११ श्चमासाः१२ करोत्यातिमत्र स्थितौ मानवानामयं कीर्तितः कालचंद्रो मुनींदैः" इति स्थितं यदैतादृक्सामग्री पूर्णा भवति तदा पुंसाम् अभीप्सितकार्यसिद्धयै प्रत्यक्षरूपमिति प्रत्यक्षं दृश्यमानं रूपं यस्य तत्तथाशकुनं निरीक्ष्यं विलोकनीयम्॥१२॥क्षीणचंदेति ॥ एवंविधदिनं शकुनदर्शने वर्जयेत् । कीदृशं क्षीणचंद्रतिथिदुःसहानिलमिति क्षीणःचंद्रो यस्यामेवंविधा तिथिः दुःसहोनिलो वायुर्यस्मिस्तत्तथा । पुनः कीदृक दूषितं दोषदुष्टं केन धरणिकंपनादिना आदिना आदिशब्दादुल्कापातादिनेत्यर्थः । पुनः कीट जलदसंकुलांवरमिति जलदेन मेघेन संकुलं कलुषीकृतमंबरं विपद्यस्मिस्तत्तथा पूर्ववदिति क्षीणचंद्रादिवत् अमावास्यावत् ॥ १३ ॥
॥ भाषा || .
लश्मनकी शुद्धि होय, और चंद्रबल होय ता दिना वांछित कार्यकी सिद्धिके अर्थ प्रत्यक्षरूप शकुन तैसेही देखबो योग्य है ॥ १२ ॥ क्षीणचंद्रेति ॥ क्षीणचंद्रमा क्षीणतिथि होय दुःसहपवन जा दिन होयं पृथ्वी कंपन वज्रपात बिजली पातादिक करके दूषित होय, और मेषकरके आकुल आकाश जादिन होय ऐसो दिन शकुनके देखबेमें वर्जित करनो ॥ १३ ॥
For Private And Personal Use Only