________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरेंगिते अंगस्फुरणप्रकरणम्। मशकं तिलक पिटकं वापि व्रणमथ चिह्न किमपि कदापि ॥ स्फुरति पदान्यधितिष्ठति यावत्स्यात्पूर्वोक्तं फलमपि तावत् ॥ ११ ॥ विदव उज्ज्वलवर्णा यस्य स्युर्यावनखरेषु नरस्य ॥ दुःखं तावनश्यति तस्य प्रतिदिनजातसुखातिशयस्य ॥ १२ ॥ त्यक्तदक्षिणापथे सदागतावुत्तरापथेन पंकजाकरम् ॥ स्वेच्छया प्रसर्पति प्रसर्पतः सिध्यति क्षणादपेक्षितं ध्रुवम् ॥ १३॥
॥ टीका ॥
लानि हंति पुरुषाणां वामे भागे स्त्रीणां दक्षिणे भागे चेत्यर्थः ।। १० ॥ मशकमिति।। मशकं मस इति प्रसिद्धम्। तिलकमिति तिलधान्यानुकृतिः शरीरे कृष्णबिंदुविशेषः पिटकमिति विस्तृतं वपुषि रक्तं कृष्णं वा चिह्न लक्षणमिति लोके व्रणं प्रसिद्धं किमपिचिह्नं पूर्वोक्ताविपरीतमेतन्मध्यात्कदाचिदेकं स्फुरति यावत् कालं स पुमांस्तेषु पदेषु अधितिष्ठति तावत्कालं पूर्वोक्तं फलमपि तस्य स्यात् । केचित्तु अन्यथा व्याख्यानयंति पूर्वोक्तेषु मध्यादेक यदि शरीरे स्फुरति प्रकटी भवति तद्यावत्कालं पदान्यंगविशेषाणि अधितिष्ठति तावत्कालं तस्य फलं भवतीत्यर्थः । मशकादीनां कालांतरेणाभावदर्शनादेतवचनम् ॥ ११ ॥ विंदव इति ॥ नखरेषु नखेषु यस्य यावदुज्ज्वलवर्णा बिन्दवः स्युः तस्य तावदुःखं न स्यात् कीदृशस्य प्रतिदिनजातसुखातिशयस्येति प्रतिदिनं जातः सुखातिशयः सुखाधिक्यं यस्य स तथा केचित्तु आगंतुकानां बिंदूनामेव सुखजनकत्वं प्रतिपादयंति तदुक्तमन्यत्र 'आगंतवः प्रशस्ता स्युरिति भोजनृपोभ्यधात् ॥ इति ॥ १२ ॥ त्यक्तदक्षिणापथ . इति ॥
॥ भाषा ॥
शकरहैं ॥ १० ॥ मशकमिति ॥ मस्सो तिल लक्षण बण और कोई चिह्न होय इनमेंसू एकभी प्रगट होय जितने काल अंगमें स्थित होय तब ताई ताको फल पूर्व कहे जे होय ये चिह कालांतमें मिट भी जायो करैहैं ॥ ११ ॥ विदव इति ॥ जाके नखनमें उज्ज्वल वर्णके श्वेत बिंदु जबतक होय ता प्राणीकू तव ताई दुःख नहीं होय, दिनदिनप्रति सुखकी अधिकता होय ॥ १२ ॥ त्यक्तदक्षिणापथ इति ॥ दक्षिणमार्गकू छोडके वायु उत्तर मार्ग करके
For Private And Personal Use Only