________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
भाषांतर अध्ययन४
॥३०॥
॥३०३॥
व्याख्या-प्रमभः प्रमादी मनुष्यो वित्तेन द्रव्येण कृते 'इममि लोए' अस्मिन् लोकेऽथवा परलोके त्राणं | स्वकृतकर्मतो रक्षणं न लभेत न प्राप्नुयात् , वेश्यागृहस्थपुरोहितपुत्रवत्
अर्थः-प्रमत्त-पमादी मनुष्य वित्त-द्रव्यवडे आ लोकमां अथवा परलोकमां त्राण, एटले पोते करेलां कमोथी रक्षण नथी पामतो अर्थात् स्वकृत कर्मनां फल भोगववामां द्रव्यादि लेश पण रक्षण आपी शकतां नथी. ___ कस्मिंश्चिन्नगरे कोऽपि राजा इंद्रमहोत्सवे सांतःपुरो निर्गच्छन् निर्घोषं कारयामास सर्वे पुरुषा नगराहहिरायांतु ? योऽत्र स्थास्यति तस्य महादंडो भविष्यति, तत्र राजवल्लभः पुरोहितपुत्रो वेश्यागृहे प्रविष्टो निर्घोषणां श्रुत्वापि न निर्गतः, राजपुरुषगृहोतोऽप्यसो राजवल्लभत्वेन दर्प कुर्वन्न तेभ्यः किंचिद्ददी, तैस्तु राजसमीपे नीतः राज्ञा त्वाज्ञाभंजकत्वेनास्य शलादंडः कथितः, पुरोहितेन तत्पित्रा सर्वस्वमहं ददामीत्युक्तं तथापि राज्ञायं न मुक्तः, शलायामेवारोपित इति. दीपप्रणष्टः प्रणष्टदीपः पुरुषो भावोन्योतरहितः पुरुषो यथा नैयायिक सम्यग्दर्शनादितत्वं दृष्ट्वाऽदृष्टमिव करोति, कीदृशःप्रगष्टदीपः पुरुषः? अनंतमोहः, अनंतोऽविनाशी मोहो दर्शनावरणमोहनीयात्मको यस्य सोऽनंतमोहः, एतादृशोऽज्ञानीत्यर्थः, अत्र प्राकृतत्वात् षष्ट्यर्थे प्रथमापि, प्रणष्टदीपस्य प्रणष्टसम्यक्त्वस्य, अनंतमोहस्योदितमिथ्यात्वस्य नैयायिकं सम्यग्दर्शनतत्वं लब्धमलब्धमिव स्यात् , प्राप्तं सम्यक्त्यमप्राप्तमिव स्यात् ? तदर्शनफलस्याभावात्. लब्धस्य सम्यक्त्वस्य हानितोऽलब्धमेव, न केवलं प्रमादी पुमान् वित्तेन त्राणं न लभेत, किंतु प्रमादो त्राणकारणं नरकादिभयनिवारणहेतु सम्यग्ज्ञानादिरत्नत्रयमपि हंतीत्यर्थः. अत्र खनिप्रविष्टधातुवादी पुरुषो यथा प्रणष्टदीपो जातः, तस्य दृष्टपूर्वोऽपि मार्गोऽदृष्टवजात:.
For Private and Personal Use Only