________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
॥१०६९॥
ARRARARHIC+C+
तदाह-पूर्वमेषणीयं दोषरहितमाहारमिच्छेदभिलषेत्, यादृग् आहारस्तायुद्गार इति वचनात्. तमपि सटीक मितं प्रमाणोपेतं, न त्वपरिमितं गृह्णीयात. पुनः साघुर्निपुणार्थबुद्धिं सहायमिच्छेत्, निपुणार्थेषु जीवादितत्वेषु बुद्धिर्यस्य स निपुणार्थबुद्धिस्तं, जीवाजीवादितत्वज्ञं सहायं शिष्यमिच्छेत्. यतो हि सम्यग्निर्दोषाद्याहारधर्माचारवेदिकात्सहायभूताच्छिष्याद्गुरुरपि शैलकमुनिवद्धमें स्थैर्य लभते. पुनर्यः साधुविवेकयोग्यं निकेतमिच्छेत्, विवेकः स्त्रीपशुपंडकादिनामभावेनैकांतस्तेन योग्यं विवेकयोग्यं निकेतं साधुनिवासस्थानमभिलषेत्. ॥ ४ ॥ अथ कालादिदोषवशाच्चेत्पूर्वोक्तगुणः सहायः शिष्यो न लभेत्तदा किं कर्तव्यमित्याह
॥ मूलम् ॥--न वा लभिजा निउणं सहायं । गुणाहियं वा गुणओ समं वा ॥ इकोवि पावाइ विवजयंतो । विहरेज कामेसु असज्जमाणो ॥ ५॥ व्याख्या-वाशब्दो यद्यर्थे. वा यदि निपुणं बुद्धिमंतं सहायं शिष्यं न लभन्न प्राप्नुयात्, तं सहायं गुणाधिकं, गुणैः स्वस्मिन् स्थितैर्विनयज्ञा-3. नादिभिरधिकमुत्कृष्टं, अथवा तं शिष्यं गुणत इति स्वस्मिन् स्थितैर्ज्ञानादिभिः समं सदृशं न प्राप्नु
MICALCHACTELSCRESCRACT
For Private And Personal Use Only