________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोकं
॥१०६८॥
दर्शयति-प्रथमं गुरुवृद्धसेवा ज्ञानप्राप्तिहेतुः, गुरवश्च वृद्धाश्च गुरुवृद्धास्तेषां सेवा गुरुवृद्धसेवा. तत्र | गुरवो धर्माचार्याः, वृद्धाः श्रुतपर्यायाभ्यां ये महांतः, तेषां सेवाज्ञानदर्शनहेतुभृतेत्यर्थः, पुनराद् बालजनस्य मूर्खस्य विशेषेण वर्जना परिहरणा ज्ञानस्य हेतुभृता. पुनः पंचप्रकारस्य स्वाध्यायस्यैकांतेनैकाग्रचित्तेन निषेवणाऽभ्यसनं स्वाध्यायकांतनिषेवणा ज्ञानप्राप्तिहेतुभृता. पुनः सूत्रार्थयोः सम्यक्प्रकारेण चिंतना सूत्रार्थसंचिंतना, सापि ज्ञानप्राप्तिहेतुभूता. पुनधृतिधैर्य, चित्तस्यैकाग्यूमुद्वेगाभावत्वं, एतदपि ज्ञानप्राप्तिहेतुभूतं. एतैरंतरेण ज्ञानप्राप्तिन स्यादित्यर्थः॥३॥ एतानीच्छता पुरुषेण प्राक् किं कार्यं तदाह
॥ मूलम् ॥-आहारमिच्छे मियमेसणीजं । सहायमिच्छे निउणबुद्धिं ॥ निकेयमिच्छेज्ज विवेगजोगं | समाहिकामे समणे तवस्सी ॥ ४ ॥ व्याख्या-समाधिकामः श्रमणस्तपस्व्येतदिच्छेत्. समाधि ज्ञानदर्शनचारित्रलाभं कामयत्यभिलषतीति समाधिकामो ज्ञानदर्शनचारित्राभिलाषुकः, श्रमणः क्रियानुष्टानादौ श्रमकर्ता. तपस्वी षष्टाष्टमादितपःकर्ता एतदिच्छेत्. एतत् किं ?
CRICA
॥१०६८॥
For Private And Personal Use Only