________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
RAEXA
॥१०६७॥
तेत्यर्थः. ज्ञानस्य सर्वप्रकाशनया, सर्वस्य वस्तुनःप्रकाशना प्रकटीकरणं, प्रकाश्यतेऽनयेति प्रकाशना, | तया प्रकाशनया, इत्यनेन ज्ञानात्मको मोक्षहेतुरुक्तः. पुनरज्ञानमोहस्य विवर्जनया जीवो मोक्षं समुपैति. अज्ञानं मत्यज्ञानादि, मोहो मोहनीयं, अज्ञानं च मोहश्चानयोः समाहारोऽज्ञानमोहं, तस्याऽज्ञानमोहस्य विवर्जनया विशेषतस्त्यागेन, मिथ्याश्रुतश्रवणकुदृष्टिसंगत्यागेन मोक्षः स्यात्, इत्यनेन सम्यग्दर्शनात्मको मोक्षहेतुरुक्तः. तथा पुनारागस्य द्वेषस्य च संक्षयेण विनाशेन जीवो मोक्षं समुपैति. रागद्वेषाभावेन चारित्रस्याभिधानं, इत्यनेन चारित्रात्मको मोक्षहेतुरुक्तः. ततः सम्यग्ज्ञानदर्शनचारित्रैरेकांतसौख्यं दुःखलेशैरकलंकितं मोक्षं समुपैति. मोक्षश्च दुःखप्रमोक्षेणेव संसारस्य निवृत्त्यैव स्यात्. ॥ २ ॥ अतो ज्ञानादीनां दुःखप्रमोक्षत्वमोक्षे हेतुत्वमुक्त्वेदानी ज्ञानादीनां प्राप्तेहेतूनाह
॥ मूलम् ।। तस्सेस मग्गो गुरुवुढसेवा । विवजणा बालजणस्स दूरा ॥ सज्झायएगंतनिसेवणा य । सुत्तत्थचिंतणया धिईयं ॥३॥ व्याख्या-हे शिष्य! तस्य मोक्षोपायभूतस्य ज्ञानस्यैष समीपतरवर्ती मम हृदयस्थस्तवाग्रे वक्ष्यमाणो मार्गः प्राप्तिहेतुरुक्त इति शेषः. एष कः? तं मार्ग
AA-CALCRICALCIRCR
For Private And Personal Use Only