________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandi
उत्तरा
A-
सटोक
॥१०७०॥
RACKAGARMATICECASTE
यात्, तदा स साधुरेकोऽप्येकाक्यपि शिष्यै रहितो विचरेविहारं कुर्यात्, न तु हीनानां कुशिष्याणां मुंडमेलापं कुर्यात्. सम्यक् शिष्याऽभावे साधुनैकाकिनापि विहर्तव्यं, न कश्चिद्दोषः. साधुः किं । कुर्वन् विहरेत् ? पापानि पापकारकाणि क्रियानुष्टानानि विवर्जयेत्. पुनः साधुः किं कुर्वन् विचरेत् ? कामेषु 'असज्जामाणो' इतींद्रियसुखेष्वनुद्यतो भवन्, प्रतिबंधनमकुर्वाण इत्यर्थः ॥५॥ अथ दुःख-|| प्रमोक्षहेतुज्ञापनार्थ दृष्टांतमाह
॥ मूलम् ।।-जहा य अंडप्पभवा बलागा। अंडं बलागप्पभवं जहा य ॥ एमेव मोहाययणं || सुतण्हां । मोहं च तण्हाययणं वयंति ॥६॥व्याख्या-यथा बलाकापक्षिण्यंडप्रभवा, अंडं प्रभवमुत्पत्तिकारणं यस्याः सांडप्रभवा, अंडादुत्पन्नेत्यर्थः. यथा च पुनरंडं बलाकाप्रभवं, बलाका पक्षिणी प्रभवो यस्य तबलाकानभवं, अंडं बलाकात उत्पन्नमित्यर्थः, एवममुना दृष्टांतेनैव, खु निश्चयेन तृष्णां वांछां मोहायतनं वदंति, मोहस्याऽज्ञानस्यायतनमुत्पत्तिहेतुं पंडितास्तृष्णां वदंतीति भावः. च पुनमोहं तृष्णायतनं, तृष्णाया वांछाया उत्पत्तिस्थानं पंडिता वदंति. तृष्णा हि वस्तुनि मूर्छा,
PASSROOMICRANAGAR
॥१०७०॥
For Private And Personal Use Only