________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१०६३॥
www.kobatirth.org
नारूपासु तथा 'दसाइणं' इति दशादीनां दशाश्रुतस्कंधकल्पव्यवहाराणामुद्देशेषु षड्विंशतिसंख्येषु यत्नं कुरुते स मंडले न तिष्ठति ॥ १७ ॥
॥ मूलम् ॥ —– अणगारगुणेहिं च । पकप्पे य तहेव य ॥ जे भिक्खू जयईचं । सेन अच्छइ मंडले || १८ || व्याख्या -यो भिक्षुः सप्तविंशतिसंख्येष्वनगारगुणेषु, तथैव प्रकल्पे आचारांगसूत्रोक्तशास्त्रपरिज्ञानाद्यष्टाविंशत्यध्ययनात्मके साधोः प्रकृष्टाचारे आचारांगे यतते सम्यगभ्यासं कुरुते, स संसारे न तिष्ठति ॥ १८ ॥
1
॥ मूलम् ॥ पापसुयप्पसंगेसु । मोहठाणेसु चैव य ॥ जे भिक्खू जयई निच्चं । सेन अच्छइ मंडले ॥ १९ ॥ व्याख्या – यो भिक्षुरेकोनत्रिंशत्पापश्रुतप्रसंगेषु, तथा त्रिंशन्मोहस्थानेषु | यतते स संसारे न तिष्टति पापोपादानानि श्रुतानि पापश्रुतानि तेषु प्रसंगास्तथाविधशक्तिरूपाः पापश्रुतप्रसंगास्तेष्वष्टांगनिमित्तादिशास्त्राभ्यासेषु. मोहो मोहनीयं कर्म, तत्तिष्टति येषु तानि मोहस्थानानि तेषु त्रिंशत्संख्येषु निवृत्तिं कुरुते ॥ १९ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१०६३॥