________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥१०६२॥
साधुः संसारे न तिष्टति. शबलयंति कर्बुरयंति चारित्रं ये ते शबला अशुभक्रियारूपाः, तेषु शबलेषु हस्तकर्मादिषु यः परिहारबुद्धिं धत्ते. द्वाविंशतिपरीषहास्तु द्वितीयाध्ययने पूर्वमेव कथिताः, तेषां सहने स्थैर्य कुरुते स मंडले न तिष्टति. ॥ १५ ॥
॥ मूलम् ॥-तेवीसे सूयगडेसु । रूवाहिएसु सुरेसु य ॥ जे भिक्खू जयई निञ्च । से न अच्छइ मंडले ॥ १६ ॥ व्याख्या-यो भिक्षुः सूत्रकृतेषु सूत्रकृताध्ययनेषु त्रयोविंशतिसंख्येषु, तथा रूपाधिकेषु, रूपमेकांकं, तेनाधिका रूपाधिकास्तेषु रूपाधिकेषु. त्रयोविंशत्यध्ययनानि सूत्रकृतांगस्य | वर्तते, तानि यदैकेनाधिकानि भवंति तदा चतुर्विंशतिसंख्याकानि भवंति, तेषु चतुर्विंशतिसुरेषु | भुवनपत्यादिषु. अथवा देवेषु ऋषभादिचतुर्विंशतिसंख्येषु यत्नं कुरुते, एतेषु ज्ञानोपयोगं कुरुते, स मंडले न तिष्टति. ॥ १६॥
॥ मूलम् ॥–पणवीसभावणाहिं । उद्देसेसु दसाइणं॥जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ २७ ॥ व्याख्या-यो भिक्षुः पंचविंशतिभावनासु, पंचमहाव्रतविषये ईर्यासमित्यादिसाध
HARCOLORECARRAHANA
॥१०६२॥
For Private And Personal Use Only