________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एन-
सटो
उत्तरा
॥१०६१॥
KAKAR-RAKAKKARACT
वचने तृतीयाहुवचनं प्राकृतत्वात्. सूत्रकृतांगाध्ययनानि षोडश संति, समओ वेयालीयं' इत्यादि. असंयमस्य सप्तदश भेदाः संति, पंचाश्रवाद्विरमणं, पंचेंद्रियनिग्रहः, चतुःकषायजयः, दंडत्रयविरतिश्चेति संयमः सप्तदशभेदः, एतस्माद्विपरोतोऽसंयमोऽपि सप्तदशविधः. तस्मात्सप्तदशविधेऽसंयमे यो न प्रवर्तते, स संसारे न तिष्टति. ॥ १३ ॥
॥ मूलम् ॥-बंभंमि नायज्झयणेसु । ठाणेसु असमाहिए ॥ जे भिक्खू जयई निच्च । से न अच्छइ मंडले ॥१४॥ व्याख्या-यो भिक्षुब्रह्मणि ब्रह्मचर्येऽष्टादशविधे, दिव्योदारिकमैथुनानां करणकारणानुमतिभेदात, तथा मनोवाकायेनाष्टादशप्रकारे. तथा ज्ञाताध्यननेष्वेकोनविंशतिसंख्येषु उत्क्षिप्तादिषु, तथाऽसमाधिस्थानेषु विंशतिसंख्येषु यत्नं कुरुते, स संसारे न तिष्टति. विंशत्यसमा. धिस्थानानि समवायांगसूत्रे उक्तानि. ॥१४॥
॥ मूलम् ॥-एगवीसाइ सबलेसु । बाबीसा य परीसहे ॥ जे भिक्खू जयइ निच्चं । से न अच्छइ मंडले ॥ १५॥ व्याख्या-यो भिक्षुरेकविंशतिशबलेषु, च पुनाविंशतिपरिषहेषु यतते, स
CARE
॥१०६२॥
For Private And Personal Use Only