________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटो
GST-C4
॥१०५९॥
+
AAAAAAR
॥ मूलम् ॥-पिंडग्गहे पडिमासु । भयहाणेसु सत्तसु ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले, ९॥ व्याख्या-यो भिक्षुः संसृष्टादिषु सप्तसु पिंडावग्रहप्रतिमाखाहारग्रहणविषयाभिग्रहरूपासु, तथा पुनः सप्तसु भयस्थानेष्विहलोकादिषु यतते, पिंडग्रहणप्रतिमासु सप्तसु पालने | यत्नं कुरुते, इहलोकादि सप्तसु भयस्थानेषु भयस्याऽकरणे स्थैर्य कुरुते, स साधुमंडले न तिष्टति.
॥ मूलम् ॥-मयेसु बंभगुत्तीसु । भिक्खूधम्ममि दसबिहे ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥१०॥ व्याख्या-यो भिक्षुर्मदेषु जात्यादिष्वष्टसु, तथा ब्रह्मगुप्तिषु नवसु ब्रह्मचर्यरक्षणवाटिकासु, तथा दशविधेषु क्षात्यादिषु साधुधर्मेषु यतते, मदानां परिहारे ब्रह्मगुप्तिनां रक्षणे, दशविधक्षात्यादिसाधुधर्मपालने उद्यम कुरुते, स संसारे न तिष्टति. ॥१०॥
॥मूलम् ॥-उवासगाणं पडिमासु । भिक्खूणं पडिमासु य॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ ११ ॥ व्याख्या-यः साधुरुपासकानां क्षाद्धानामेकादशसु प्रतिमासु, तथा भिक्षुणां द्वादशसु प्रतिमासु यत्नं कुरुते, श्राद्धप्रतिमानां सम्यग्ज्ञानेनोपदेशदानेन, भिक्षुप्रतिमानां च सम्य
॥१०५९॥
For Private And Personal Use Only