________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१०५७
त्यजति, स्वस्यात्मनि न धारयति, स भिक्षुः संसारे न तिष्टति पूर्ववत्. दंड्यते चारित्रधनापहारेण || स्टोक | दरिद्रः क्रियते आत्मभिरिति दंडा दुरध्यवसायाः, तेषां त्रिकं मनोवाक्कायैर्दुष्टाध्यवसायचिंतनत्वेन | 8 | त्रिःप्रकारकं. एतदंडत्रिकं. तथा गुरोर्लोभादिसहितस्य चित्तस्य भावा अध्यवसायानि गौरवाणि, तेषांहू त्रिकं ऋद्धिगौरवरसगौरवसातागौरवरूपं. तथा शल्यते बाध्यते जंतुरेभिरिति शल्यानि, तेषां त्रिक मायानिदानमिथ्यादर्शनशल्यरूपं शल्यत्रिकं ज्ञेयं. एतेषां यो निषेधकः स मुनिर्मुक्तिगामीत्यर्थः.॥
॥ मूलम् ॥-दिवे य जे उवस्सग्गे । तहा तेरिच्छमाणुसे । जे भिक्खू सहई निच्च । से न अच्छइ मंडले ॥५॥ व्याख्या-यो भिक्षुर्दिव्यान् देवैः कृतान्. तथा तैरश्चांस्तियग्भिः कृतान्, तथा मानुष्यकान् मनुष्यैः कृतान्, उपसर्गान् सम्यक् कषायाऽभावेन सहते, स मंडले संसारे न तिष्टति. ॥५॥ ॥ मूलम् ॥-विगहाकसायसन्नाणं । झाणाणं च दुयं तहा ॥ जे भिक्खू वच्चइ निच्च । से 8
P१०५७॥ न अच्छइ मंडले ॥६॥ व्याख्या-यो भिक्षुर्विकथाचतुष्कं राज्यदेशभोजनस्त्रीणां वर्णनारूपं,
CMCGC
For Private And Personal Use Only