________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
३१०५०॥
शतप आह
॥ मूलम् ॥-ठाणा वीरासणाईया । जीवस्स उ सुहावहा ॥ उग्गा जहा करिति । कायकिलेसं वियाहियं ॥ २७ ॥ व्याख्या-तत्कायक्लेशतपो व्याख्यातं, तदिति किं? यत्र वीरासना
दीनि स्थानानि कायस्थितिविशेषाणि यथा धार्यते क्रियंते, वीरासनगरुडासनलगुडासनादीनि यथा हा क्रियते, तथा कायक्लेशः स्यात्. कथंभूतानि स्थानानि ? जीवस्य सुखावहानि, कर्मनिर्मूलनक्षमाणि.
पुनः कीदृशानि ? उग्राणि भीषणानि, यस्तैः पुरुषैः कर्तुमशक्यानि, प्राकृतत्वाल्लिंगव्यत्ययः ॥ २७ ॥ अथ संलीनतामाह
॥ मूलम् ॥-एगंतमणावाए । इत्थीपसुविवजिए ॥ सयणासणसेवणया। विवित्तसयणासणं |॥२८॥ व्याख्या-एकांते जनैरनाकुले, पुनरनापाते, न विद्यते आपातः स्त्रीपुरुषादीनामागमनं यत्र तदनापातं, तस्मिन्. पुनः स्त्रीपशुपंडकादिविवर्जिते, आरामोद्यानशून्यगृहादिस्थाने, शयनासनसेवनया कृत्वा संलोनताख्यं तपो ज्ञेयमित्यर्थः ॥ २८ ॥
॥१०५०॥
For Private And Personal Use Only