________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१०४९ ॥
www.kobatirth.org
३, अल्पलेपिका ४, उद्गृहीता ५, प्रगृहीता ६, उज्झितधर्मा ७, एषा सप्तविधैषणा ज्ञेया. च पुनरन्ये येऽभिग्रहाः संति, अभिग्रहा यथा द्रव्यक्षेत्रकालभावादिचिंतनेन भिक्षाग्रहणरूपाः, द्रव्यतो मंडकादिकं, क्षेत्रतो गृहादौ देहलिकातो मध्ये बहिर्वा, कालतो भिक्षाचरेषु निवर्तितेषु भावतो रुदन् हसन् वा दास्यति, तदाहारो ग्राह्य इति चिंतनेन भिक्षाग्रहणं. एवं भिक्षाचर्याया भेदास्तीर्थंकरैराख्याताः कथिता इत्यर्थः ॥ २५ ॥ अथ रसत्यागाख्यं तप आह
॥ मूलम् ॥ - खीरदहिसप्पिमाई । पणीयं पाणभोयणं ॥ परिवजणं रसाणं तु । भणियं रसविणं ॥ २६ ॥ व्याख्या - एतद्रसपरिवर्जनं रसत्यागाख्यं तपस्तीर्थकरैर्भणितं, रसानां परिवर्जनं रसपरिवर्जनं, क्षीरं दुग्धं, दधि, तथा सर्पिर्घृतं, क्षीरं च दधि च सर्पिश्च क्षीरदधिसर्पषि एतान्यादिर्यस्य तत्क्षीरदधिसर्पिरादि, प्रणीतं पुष्टिकारकं, पानं पानयोग्याहारं भोजनं भक्तं, रसविवर्धनं यस्मिन् पीते भुक्ते सति बहुकामोद्दीपनं स्यात्, तस्य परिवर्जनं रसत्यागाख्यं तप उच्यते. प्राकृतत्वात् षष्टीस्थाने द्वितीया, 'पणीयं पाणभोयणं परिवजणं' इत्यत्र ज्ञेया ।। २६ ।। अथ कायक्ले
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
स्टोक
॥१०४९ ॥