________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा- चतुष्टयादिकोऽविग्रहविषयः कालो भवति, एवममुना प्रकारेण कालेन चरमाण इति गोचर्या चरतः ॥१०४६॥
साधोः खलु निश्चयेन “कालोवमं” इति कालेनावमं कालावमं मंतव्यं. ॥ २०॥ पुनः कालावमौदर्यमेव प्रकारांतरेणाह
मूलम् ॥-अहवा तईयापोरिसीए । ऊणाए घासमेसंते ॥ चउभागूणाए वा । एवं कालेहणओ भवे ॥ २१ ॥ व्याख्या-अथवा तृतीयायां पौरुष्यामूनायां किंचिद्धीनायां ग्रासमाहारमेषयन्
गवेषणां कुर्वन्, वाऽथवा चतुर्भागेनोनायां तृतीयायां पौरुष्यां भिक्षाचर्या साधोरुक्तास्ति, एवं कालेनावमौदर्यं भवेत् ॥ २१॥ अथ भावावमोदर्यमाह
॥ मूलम् ॥ इत्थो वा पुरिसो वा । अलंकिओ वाणलंकिओ वावि ॥ अन्नयरवयत्थो वा । अन्नयरेणं च वत्थेणं ॥ २२ ॥ अन्नेण विसेसेणं । वन्नेणं भावमणुमुयंते उ॥ एवं चरमाणो खलु । भावोमाणं मुणेयवं ॥ २३ ॥युग्मं॥ व्याख्या-एवममुना प्रकारेण चरमाण इति प्राकृतत्वाच्चरमाणस्य | 1 भिक्षायां भ्रममाणस्य साधोः खलु इति निश्चयेन 'भावोमाणं' इति भावावमत्वं भावावमौदर्य
RECRACROR
STA-ORGANORKINAAR
॥१०४६॥
For Private And Personal Use Only