________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१०४५॥
1535
৬*
www.kobatirth.org
कृत्वाऽवमोदरीकरणं, एवमर्धपेटाकारेण गोचरीकरणं. ( उक्तं च-वामाओ दाहिणगिहे । भिक्खइतो दाहिणाओ वामाए ॥ पुणरवि दाहिणवामाइ । जीसे सो होइ गोमुत्ति ॥ १ ॥ ) गोमूत्रिकाकारेण. पतंवीथिका, पतंगः शलभस्तस्य वीथिकोड्डयनं पतंगवीथिका, अनियता निश्चयरहिता शलभोड्डयनसशीत्यर्थः पुनः शंबूकावर्ता, शंबूकः शंखस्तद्वदावतों भ्रमणं यस्यां सा शंबूकावर्त्ता, सापि द्विविधा, अभ्यंतरशंबूका, बहिः शंबूका च. शंखनाभिरूपे क्षेत्रे मध्याद् बहिर्गम्यते साभ्यंतरशंबूकावर्ता, विप- । रीता बाह्यान्मध्ये आगमनरूपा बहिः शंबूकावर्ता पंचमी. पुनः षष्टी आयतगंतुंप्रत्यागमा ज्ञेया. आदित एवायतं सरलं गत्वा यस्यां प्रत्यागमो भवति, सा षष्टी ज्ञेयेत्यर्थः एतासां भिक्षाचर्याणा| मप्यवमौदर्यत्वं ज्ञेयं यतो ह्यवमौदर्यार्थमेवेहगुप्रकारेणैव साधुराहारार्थं भ्रमति, तस्मान्नात दोषः. ॥ १९ ॥ अथ कालावमौदर्यमाह
॥ मूलम् ॥ - दिवसस्स पोरिसीणं । चउण्हंपि जत्तिओ भवे काला || एवं चरमाणो खलु । कालो मोणं मुणेयवं ॥ २० ॥ व्याख्या - दिवसस्य चतसृणां पौरुषीणां प्रहराणां यावान् घटिका
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥१०४५॥