________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १०४४॥
www.kobatirth.org
पत्तनमबसंबाधे. एतेषु स्थानेष्वित्यर्थः ॥ १६॥ पुनः कुत्र कुत्रेत्याह- आश्रमपदे तापसाश्रयोपलक्षिते स्थाने, विहारे देवगृहे, पुनः सन्निवेशे यात्राद्यर्थ समागतजनावासे, समाजः परिषत्, घोष आभीरपल्ली, समाजश्च घोषश्च समाजघोषं तस्मिन् समाजघोषे तथा 'थलसेणाखंधारे' इति, स्थलं च सेना च स्कंधावारश्च स्थलसेनास्कंधावारं, तस्मिन् स्थलसेनास्कंधावारे तत्र स्थलमुच्च भूमिभागः, सेना चतुरंगकटकसमूहः, स्कंधावारः कटकोत्तरणनिवासः पुनः सार्थः क्रयाणकभृतां समूहः प्रतीत एव, तत्र तथा संवत भयत्रस्त जनसमवायः, कोट्टो दुर्गः, संवर्तश्च कोदृश्च संवर्तकोहं, तस्मिन् संवर्त - को. ॥ १७ ॥ पुनर्वाटेषु वृत्त्यादिपरिक्षिप्तगृहसमूहेषु रथ्यासु सेरिकासु च गृहेषु प्रसिद्धेषु एतेषु स्थानेष्ववमौ कृतं क्षेत्रतो भवति ॥ १८ ॥ अथ पुनः प्रकारांतरेण क्षेत्रावमौदर्यमाह -
॥ मूलम् ॥ - पेडा य अपेडा । गोमुत्तिपयंगवीहिया चेव ॥ संबूकावट्टायय-गंतुं पच्छागमा छट्टा ॥ १९ ॥ व्याख्या - षड्विधा क्षेत्रावमोदरिका वर्त्तते, पेटा पेटाकारा चतुःकोणा, (यत्र चतुःश्रेणिव्यवस्थितगृहपंक्तिषु भ्रम्यते, मध्यगृहाणि च मुच्यते सा पेटेत्यर्थः . ) पेटाकारेण गोचर्यं
For Private And Personal Use Only
के চ
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ १०४४॥