________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०४३॥
भ्रमितव्यमिति निर्धारण क्षेत्रेणावमौदर्यं भवेत्. तदेव भिक्षाभ्रमणक्षेत्रमाह-कुत्र कुत्र भिक्षार्थ साधुभ्रंमति? ग्रामे, गुणान् ग्रसतीति ग्रामस्तस्मिन् ग्रामे, अथवा ग्रसति सहतेऽष्टादशविधं करमिति ग्राम| स्तस्मिन्, अथवा कंटकवाटिकावृत्तो जनानां निवासो ग्रामस्तस्मिन् ग्रामे. पुनर्नगरे,न यत्र कराःसंतीति
नगरं तस्मिन्. तथा राजधान्यां, राजा धीयते यस्यां सा राजधानी, तस्यां राजधान्यां राजपीठस्थाने. निगमे प्रभूतवणिग्निवासे. आकरः खांद्युत्पत्तिस्थानं, तस्मिन्नाकरे. पल्ली वृक्षवंशादिगहनाश्रिता प्रांतजनस्थानं, तस्यां पल्ल्यां. खेटं धूलिप्राकारपरिक्षिप्त, तस्मिन् खेटे. पुनः कर्बट कुनगरं, द्रोणमुखं जलस्थलनिर्गमप्रवेशं, तभृगुकच्छादिकं. पत्तनं तु यत्र सर्वदिग्भ्यो जनाः पतंत्यागच्छंतीति पत्तनं. अथवा पसनं रत्नखानिरिति लक्षणं, तदपि द्विविधं, जलमध्यवर्ति स्थलमध्यवर्ति च. मडंबं, यस्य सर्वदिक्षु सार्धतृतीययोजनांतर्यामो न स्यात् तत्र. तथासंबाधःप्रभृतचातुर्वर्ण्यनिवासः. कर्बटशब्दादारभ्य संबाधशब्दं यावद द्वंद्वसमासः कर्तव्यः. कर्बटं च द्रोणमुखं च पत्तनं च मडंवं च संवाधश्च कर्वटद्रोणमुखपत्तनमडंबसंबाधस्तेषां समाहारः कर्बटद्रोणमुखपत्तनमडंबसंबाधं, तस्मिन् कर्बटद्रोणमुख
CASSECRE
१०४३॥
For Private And Personal Use Only