________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१०४१॥
सह प्रतिकर्मणा वर्तते इति सप्रतिकर्म वैयावृत्त्यसहितं भक्तपरिज्ञाख्यं इंगिनोमरणं च, सप्रतिकर्मणी
सटीक एते द्वे अपि मरणे, परं तु मूलत्वेनैक एव भेदः. च पुनरप्रतिकर्म मरणं वैयावृत्त्यरहितं पादपोपग-2 ममित्यर्थः, तथा पुनर्निर्हार्यनशनं, ग्रामा.नगराबहिर्निर्हार्यते निःसार्यते इति निर्हारि, पुनरनिर्हारि, | एतत्पादपोपगममपि द्विविधं भवति, द्वयोरपि निर्हाराऽनिर्हारयोर्मरणयोराहारच्छेदस्तु भवत्येव. ॥१३॥ ६ अथोनोदरिकामाह
॥ मूलम् ।।-ऊनोयरियं पणहा। समासेण वियाहियं ॥दवओ खित्तकालेग। भावेगं पज्जवेहि य।१४। व्याख्या-अवममूनमुदरं यस्मिंस्तदवमोदरं, तत्र भवमवमोदरिकं, तत्तपः समासेन संक्षेपेण पंचधाव्याख्यातं, द्रव्यतो द्रव्येण, क्षेत्रेण कालेन, भावेन, च पुनः पर्यायैः ॥१४॥ तत्र द्रव्यतोऽवमोदरिकामाह
॥मलम् ॥-जो जस्स उ आहारो । तत्तो ऊगं तु जो करे ॥ जहन्नेणेगसित्थाई । एवं दवेण ओ भवे ॥ १५ ॥ व्याख्या-यस्य जीवस्य यावानाहारः स्यात् , तत आहाराद्यदूनं कुर्यात् , जघन्येनैकसिक्थकं, यत्रैकमेव सिक्थं भुज्यते, आदिशब्दात् सिक्थद्वयादारभ्य यावदेककवलभोजनं, एतच्चा
2॥१०४१॥
For Private And Personal Use Only