________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटीकं
॥१०४०॥
चेट्टपई भवे ॥ १२ ॥ व्याख्या-प्राकृतत्वादत्र स्त्रीत्वं. यदनशनं मरणे मरणसमये भवति, तत्तीर्थकरेंविविध व्याख्यातं, सविचार, सह विचारेण भनोवाकायभेदचेष्टारूपेण वर्तते यत्तत्सविचारं, अंगादिचेष्टया सहितं, स्थित्युपविशनत्वग्वर्तनविश्रामणादिकया युक्तमित्यर्थः. द्वितोयमविचारं चेष्टारहितं पा
दपोपगममित्यर्थः. तत्सविचारं हि कायचेष्टां प्रतीत्याश्रित्य भवतीत्यर्थः. वैयावृत्त्यकृत्साधुनोत्थापनं, ४ प्रतिस्थापनमुभयपाभ्यां स्थापनमित्यादि वैयावृत्त्यकारापणं, अथवा स्वयमेव शरीरस्योद्वर्तनपरिव
तनादिचेष्टासहितं, अन्येन न कारापणं, ईदृशं यद्भवति तत्सविचारं ज्ञेयमित्यर्थः. त्रिविधचतुर्विधाहारत्यागेन प्रत्याख्यानमुद्वर्तनादि करोति कारयति वा तद्भक्तपरिज्ञाख्यं प्रथमं १, तथा कृतनिश्चितचतुविधाहारत्याग इंगितदेशे उद्वर्तनादींगितं चेष्टितमात्मनैव करोति, अन्येन कारयति, एतद् द्वितोय| मिंगितमरणं २. एतद्वयमपि सविचारमनशनं ज्ञेयं. ॥ १२ ॥ एतदेव सूत्रकारो वदति
॥ मूलम् ॥-अहवा सप्पडिकम्मा । अप्पडिकम्मा य आहिया ॥ नीहारमनीहारी । आहारकाच्छेओ दोसुवि ॥ १३ ॥ व्याख्या-अथवा तत्पुनर्मरणं सप्रतिकर्म अप्रतिकर्म आहितं कथितमित्यर्थः.
R॥१०४०॥
For Private And Personal Use Only