________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
सटीक
॥९३॥
60000000000000000000
केभ्यः? ये तानि प्रतिसेवंते, तानि कानि? स्वामी राजादिः, अभिवादनं नमस्कारमस्मभ्यं कुर्यात्, अथवा स्वाम्यभ्युत्थानमस्मभ्यं कुर्यादशनादिसन्मानं कुर्यात्, पुनरस्माकं निमंत्रणं कुर्यात्, एतावता राज्ञा निमंत्रितानाहारादिभ्यः प्रार्थितान् द्रव्यलिंगिनः साधून न कीर्तयेदित्यर्थः, पुनः साधुः कीदृशो भवेत्तदाह-अनुत्कशायी सत्कारादिना हर्षरहितस्तादृशो भवेत्, नोत्कोऽनुत्कः शेते इत्येवंशीलोऽनुत्कशायोति शब्दार्थः, यत्र कश्चिदासनदानाभ्युत्थाननिमंत्रणादिकं करोति तत्र गमनायोत्को न भवति, उत्कंठितो न भवति. अथवाणुकषायी, सत्कारादिकं यो न करोति तस्मै क्रोधमकर्वाणोऽक्रोधः पुनः कीदृशः? अल्पेच्छो धर्मोपकरणमात्रधारी, अनेन निर्लोभत्वमुक्तं. पुनः कीदृशः? 'अन्नाएसी' अज्ञानैषी जातिकुलसद्रव्यनिद्रव्यादिनाऽपरीक्षितोऽज्ञातस्तादृशं गृहस्थमाहाराद्यर्थमेवयतीत्येवंशीलमज्ञानैषी, पुनः कीदृशो भवेत् ? अलोलुपः सरसाहारै लोपट्यरहितः, पुनः साधुरन्यान् सरसाहारभक्षणासत्कान् वीक्ष्य रसेषु नानुगृध्येत्, सरसाहारभिक्षां नाभिकांक्षेदित्यर्थः. पुनः पन्नवं इति'प्रज्ञावान् साधु नुतप्येत, अन्येषां सत्कारं दृष्ट्वा हा मम कोऽपि सत्कारं न करोति किमर्थमहं प्रवजित
00000000000000000000
For Private And Personal Use Only