________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१०३८||
অশ
ক
www.kobatirth.org
| त्यर्थः स्त्रीलिंगत्वं प्राकृतत्वात् इत्वरिकं तपः सावकांक्षं भवति, सह अवकांक्षा वर्तते इति सावकांक्षं, घटिकायाद्यनंतर महं भोजनं विधास्यामोतिवांछासहितमित्यर्थः द्वितीयं यावज्जीवं निरवकांक्षमाहारप्रत्याख्यानादारभ्य तजन्मनि भोजनाशाऽसंभावाद्वांछारहितमित्यर्थः ॥ ९ ॥
॥ मूलम् ॥ जो सो इत्तरियतवो । सो समासेण छबिहो । सेदितवो पयरतवो । घणो य तह होइ बग्गो य ॥ १० ॥ व्याख्या - यत्वित्वरिकं तपस्तत्समासेन संक्षेपेण षड्विधं भवति, विस्तरतस्तु द्वासप्ततिविधं ७२ भेद अथ पविधत्वमाह-श्रेणितपः १, प्रतरतपः, २, घनतपः ३, तथा वर्गतपः ४. श्रेणिः पंक्तिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादिक्रमेण क्रियमाणं पण्मासांतं गृह्यते, तत्प्रथमतपो भवति तथा श्रेणिरेव श्रेण्या गुणिता प्रतरस्तदुपलक्षितं तपः प्रतरतपः. इह सुबोधाथ चतुर्थं षष्टाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते सा चतुर्भिर्गुणिता पोडशपदात्मकं प्रतराख्यं तपो भवति तत्प्रतरतपः षोडशपदात्मकमेव यदा पदचतुष्टयात्मिकया श्रेण्या गुण्यते, तदा घनाख्यं तपो भवति. ‘शोल चउका चउसहि' इति भावः अथ पुनर्यदा घनश्चतुःषष्टिपदात्मको घनेनैव चतुःषष्टिपदा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
| ॥ १०३८॥