________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १०३६॥
www.kobatirth.org
॥ ४ ॥ अत्र दृष्टांतमाह
॥ मूलम् ॥ - जहा महातलागस्स । संनिरुद्धे जलागमे ॥ उस्सिंचणाए तवणाए । कमेणं सोसणा भवे ॥ ५ ॥ व्याख्या- यथा महातटाकस्य महाजलाश्रयस्य जलागमे पानीयागमनमार्गे संनिरुद्धे सम्यक्प्रकारेण संवृते सति, 'उस्सिंचणया ' उत्सिंचनयोर्ध्व मरघट्टादिनोर्ध्वाकर्षणायाातपनेन रविकिरणादीनां संतापेन क्रमेण शोषणा जलस्य शोषणं भवेत्, नवीनजलागमनमार्गों निरुध्यते, पूर्वस्थजलं च निष्कास्यते, तदा जलहृदो रिक्तः स्यादिति भावः ॥ ५ ॥ अथ दाष्टतिकमाह
॥ मूलम् ॥ - एवं तु संजयस्सावि । पावकम्मनिरासवे ॥ भकोडीसंचियं कम्मं । तवसा निजरिजई ॥ ६ ॥ व्याख्या- एवममुना प्रकारेण पापकर्मनिराश्रवे सति, पापकर्तॄणां प्राणिवधाद्यानां निरोधे सति संयतस्यापि साधोरपि तपसा द्वादशविधेन भवकोटीसंचितं कर्म निर्जीर्यते, आधिक्येन क्षयं नीयते. अत्र कोटीग्रहणं बहुत्वोपलक्षणं, कोटीनियमस्याऽसंभवात्. ॥ ६ ॥ अथ तपोभेदमाह॥ मूलम् — सो तवो दुविहो बुत्तो । बाहिरप्भिंतरो तहा ॥ बाहिरो छविहो वृत्तो । एवमभिंतरो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
| ॥ १०३६॥