________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥१०३५॥
॥ मूलम् ॥-पंचसमिओ तिगुत्तो । अकसाओ जिइंदिओ ॥ अगारवो य निस्सल्लो । जीवो है सटीकं हवइ अणासवो ॥३॥ व्याख्या-एतादृशो जीवोऽनाश्रवो भवति, आश्रवरहितो भवति. कीडशो जीवः? | पंचभिः समितिभिः समितः सहितः पंचसमितः, पुनस्तिमृभिर्गुप्तिभिर्गुप्तः, पुनरकषायः कषायरहितः, पुनर्जितेंद्रियो वशीकृतेंद्रियः, पुनरगारव ऋद्धिरससातादिगर्वत्रयरहितः, पुनर्निःशल्यो मायानिदानमिथ्यादर्शनशल्यस्त्रिभी रहितः. एतादृशो जीवोऽनाश्रवो भवति. ॥३॥ एवंविधोऽनावश्च यथा कर्म | क्षपयति तथा वदति
॥ मूलम् ॥--एएसिं तु विवच्चासे । रागद्दोससमजियं ॥ खवेइ उ जहा भिख्कू । तमेगग्गमणा सुण ॥४॥ व्याख्या-हे शिष्य ! यथा येन प्रकारेण भिक्षुः साधुरेतेषां पूर्वोक्तानां प्राणातिपातमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनविरतिलक्षणानां व्रतानां, तथा समितिगुप्त्यादिलक्षणानामनाश्रवकारणानां विपर्यासे वैपरीत्ये प्राणिवधमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनसमित्यभावसेवने सति रागद्वेषाभ्यां समर्जितं संचितं पापकर्म क्षपयति, तं प्रकारमेकाग्रमना एकचित्तः सन् त्वं शृणु ?
5॥१०३५॥
For Private And Personal Use Only