________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०३४॥
॥ अथ त्रिंशत्तममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययनेऽप्रमत्तत्वं वीतरागत्वसम्यक्त्वपराक्रमत्वं चोक्तं, तेनाप्रमत्तेन सम्यक्त्वपराक्रमवता का मोक्षमार्गाय तपस्युद्यमो विधेयः, अतस्तपोमार्गाध्ययन त्रिंशत्तमं च कथ्यते
॥ मूलम् ॥-जहा उ पावयं कम्मं । रागदोससमजियं ॥खवेइ तवसा भिख्खू । बमेगग्गमणो सुण ॥१॥ व्याख्या-यथा येन प्रकारेण भिक्षुस्तपसा रागद्वेषसमर्जितं रागद्वेषाभ्यामुपार्जितं पापकं ] कर्म क्षपयति, तुशब्दः पदपूरणे, तं तपोमार्गमेकाग्रमनाः सावधानचित्तः सन् त्वं शृणु ? हे जंबू ! अहं वदामीति संबंधः, अनाश्रवेणैव किल कर्मक्षयः क्रियते. ॥१॥
॥ मूलम् ॥-पाणिवहमुसावाए । अदत्तमेहुणपरिग्गहा विरओ ॥ राईभोयणविरओ। जीवे हवइ निरासओ ॥ २॥ व्याख्या हे शिष्य ! ईदृशो जीवो निराश्रवो भवति. कीदृशः? प्राणिवधमृषावादादत्तमैथुनपरिग्रहाद्विरतो रहितः, पुना रात्रिभोजनविरतः. ॥ २॥ पुनरनाश्रवो यथा जीवो भवति, तथाह
॥१०३४॥
For Private And Personal Use Only