________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०३३॥
एकेन समयेनाऽविग्रहगत्यभावेन तत्र मोक्षस्थाने गत्वा साकारोपयुक्तो ज्ञानोपयोगयुक्तः सन् सिद्धयति बुद्धयति परिनिर्वाति सर्वदुःखानामंतं करोति. ॥ ७३ ॥
॥ मूलम् ॥-एस खलु सम्मत्तपरिकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आवख्खिए पन्नविए परूविए देसिए णिदंसिए उवदंसिएत्ति बेमि. ॥७४॥ व्याख्या-अथ प्रश्नोत्तरोपसंहारमाह-हे जंबू ! एष इदानीमुक्तः, खलु निश्चयेन सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता ज्ञानवता श्रीमहावीरेण 'आवख्खिएत्ति' आर्षत्वादाख्यातः, पुनःप्रज्ञापितः सामान्यविशेषपर्यायैर्व्यक्तीकरणेन प्रकटीकृतः, पुनः प्ररूपितो हेतुफलादिप्रकर्षज्ञापनेन प्ररूपितः, पुनर्दर्शितो नानाभेददर्शनेन प्रकाशितः, पुनर्निदर्शितो दृष्टांतोपन्यासेन दृढीकृतः, पुनरुपदर्शितः स्वरूपकथनेन ज्ञापितः, उपसंहारेण वा ज्ञापितः, इत्यहं ब्रवीमि, इति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥७४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां सम्यक्त्वपराक्रमाख्यमध्ययनमेकोनत्रिंशत्तमं संपूर्णं. ॥ २९ ॥ श्रीरस्तु ॥
म॥१०३३॥
For Private And Personal Use Only