________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा.
सटीक
॥१०३२॥
८ । वता कालेनेषत्प्रयासेन पंचाक्षराणि 'अ इ उ हल' इत्येतानि कथ्यंते. तावता कालेनानगारः स
मुच्छिन्नक्रियं, सम्यगुन्छिन्नास्त्रोटिताः क्रिया यत्र तत्समुच्छिन्नक्रियं, पुनरनिवृत्तिशुक्लध्यानं शुक्लध्या. नस्य चतुर्थभेदरूपं ध्यायन् शैलेश्यवस्थामनुभवन् सन् वेदनोयं १ आयुः २ नाम ३ गोत्रं ४ चैतांश्चत्वारः कमांशान् , एतानि चत्वारि सत्कर्माणि विद्यमानानि कर्माणि युगपत्समकालं क्षपयति. ॥७२॥
॥ मूलम् ॥-तओ ओरालियकम्माई च सवाहिं विप्पहाणिहिं पिप्पजहिता उजुसेढी पत्ते अ. फुसमाणगई उर्ल्ड एगसमएणं अविग्गहेणं गंता सागारोवउले सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सबदुख्काणमंतं करेइ. ॥ ७३ ॥ व्याख्या-ततः पश्चाद्वेदनीयादिचतुःकर्मक्षयीकरणादनंतरमौदारिककार्मणे, चशब्दानैजसमपि, एतच्छरीरत्रयमपि सर्वाभिर्विप्रहाणिभिर्विप्रहाय, विशेषेण प्रहाणयो विप्रहाणयः, ताभिर्विशेषेण प्रहाय परिशाट्य ऋजुश्रेणिं प्राप्तः, ऋजुः सरला चासौ श्रेणिश्च ऋजुश्रेणिस्तामृजुश्रेणिं. सरलाकाशप्रदेशपंक्तिं गतः पुनरस्पृशद्गतिः सन् , यावंतः समोर्वश्रेण्यामाकाशप्रदेशा अवगाह्यमानास्तानेव स्वप्रदेशैः स्पृशन्नधिकान्न स्पृशन् जीवो यया गत्या ब्रजति तादृग्गतिधरः सन्नूवंग
॥१०३२॥
For Private And Personal Use Only