________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
SC
सटीक
9640*3*380*9603644
अप्पडियाई सुकज्झाणं झायमाणे तप्पढमयाए मणजोगं निरंभइ, मणजोगं निभित्ता वयजोगं निसंभइ, वयजोगं निलंभित्ता कायजोगं निरंभइ, कायजोगं निरंभित्ता आणपाणनिरोहं करेइ, आणपाणनिरोहं करिता इसिंपंचरहस्सख्खरुच्चारद्धाएणं अणगारे समुच्छिन्नकिरियं अनियहिसुक्कज्झाणं झियायमाणे वेयणिजं आउयं नाम गोयं च एए चत्तारिवि कम्मसे जुगवं खवेइ. ॥ ७२ ॥ व्याख्या-अथ केवलप्राप्तेरनंतरमायुष्कं देशोनपूर्वकोटिप्रमितमायुः प्रपाल्य, अथवाऽन्यदप्यायुः पालयित्वांतर्मुहर्तावशेषायुष्को, यदा केवलिनोंतर्मुहर्तप्रमाणमायुस्तिष्टति, तदा केवली योगं मनोवाकायव्यापारं, तस्य निरोधं कुर्वाणः सन् , सूक्ष्मा क्रिया यत्र तत् सूक्ष्म क्रियमप्रतिपातिशुक्लध्यानं, शुक्लध्यानस्य तृतीयभेदलक्षणं, तद्धयायंस्तत्प्रथमतया प्रथमतो मनोयोगो मनोव्यापारो मनोद्रव्यजनितो जीवव्यापारस्तं निरुणद्धि. तं निरुध्य च वचोयोगं भाषाद्रव्यसाचिव्यजनितजीवव्यापारं निरुणद्धि. तं निरुध्य च काययोगं कायव्यापार निरुणद्धि. तं निरुध्य चानप्राणनिरोधं श्वासप्रश्वासयोनिरोधं करोति. तन्निरोधं कृत्वा योगत्रयनिरोधं कृत्वेषत्स्वल्पप्रयासेन यथोच्चार्यते, तथा पंचानां ह्रस्वाक्षराणामुच्चारकालेन, या
॥१०३१॥
For Private And Personal Use Only