________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
&ा सटीक
॥१०२३॥
ख्यातचारित्रेण संपन्नता चारित्रसंपन्नता तया, यथाख्यातचारित्रसहितत्वेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य! चारित्रसंपन्नतया यथाख्यातचारित्रसहितत्वेन शैलेशीभावं जनयति. शैलानां पर्वतानामीशः शैलेशो मेरुस्तस्येयमवस्था शैलेशो, तस्या भवनं शैलेशीभावस्तमुत्पादयति. अंशशब्दः सत्तार्थवाचकश्चतुर्दशगुणस्थानं भजते. ततः पश्चासिद्धयति, सकलकर्माणि क्षपयित्वा सिद्धिं प्राप्नोति, बुद्धयति तत्वज्ञो भवति, मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्वाति कषायाग्नेरुपशमाच्छीतलो भवति, सर्वदुःखानामंतं करोति.॥६१॥ अथ चारित्रे सति पंचेंद्रियनिग्रहो युज्यते, अतस्तत्फलं प्रश्नपूर्वमाह
॥ मूलम् ॥-सोइंदियनिग्गहेणं भंते जीवे किं जणयइ ? सोइंदियनिग्गहेणं मणुन्नामणुन्नेसु सद्देसु रागदोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुत्ववद्धं च निजरेइ. ॥ ६२॥ व्याख्या-हे भदंत ! हे स्वामिन् ! श्रोत्रंद्रियनिग्रहण कर्णेद्रियविजयेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य! |श्रोत्रंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु शब्देषु रागद्वेषनिग्रहं जनयति. पुना रागद्वेषाऽभावे सति तत्प्रत्ययिकं कर्म न बध्नाति. तो रागद्वेषावेव प्रत्ययो निमित्तं यस्य तत्तत्प्रत्ययं, तत्प्रत्यये भवं तत्प्रत्ययिकं.
॥१०२३॥
For Private And Personal Use Only