________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा।। १०२२ ।।
www.kobatirth.org
करेइ, परं नो विज्झायइ, परं अणुज्झायमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावमाणे विहरइ ॥ ६० ॥ व्याख्या - हे भगवन्! दर्शनसंपन्नतया दर्शनस्य क्षायोपशमिकस्य संपन्नता दर्शनसंपन्नता, तया दर्शनसंपन्नतया क्षायोपशमसम्यक्त्वसहितत्वेन जीवः किं फलं जनयति ? तत्र गुरुरुत्तरमाह - हे शिष्य ! दर्शनसंपन्नतया जीवो भवमिथ्यात्वच्छेदनं करोति, अर्थात् क्षायिकसम्यक्त्वं प्राप्नोति परं ततः पश्चान्न विध्यायति, ज्ञानदर्शनचारित्राणां प्रकाशं नो निवारयति ततः परं च ज्ञानदर्शनचारित्राणां प्रकाशमविध्यापयन् ज्ञानदर्शनचारित्राणां तेजोऽविनाशयन्ननुत्तरेण सर्वोत्कृष्टेन क्षायिकत्वात्प्रधानेन ज्ञानदर्शनेनात्मानं संयोजयन्, सम्यक् प्रकारेणात्मानमात्मनैव वशीकुर्वन् विहरति, भवस्थकेवलतया मुक्ततया वा विचरतीति भावः ॥ ६० ॥
॥ मूलम् ॥ चरित्त संपन्नयाएणं भंते जीवे किं जणयइ ? चरितसंपन्नंयाएणं सेलेसीभावं जणयइ, सेलेसी पडिवन्ने य अणगारे चत्तारि केवलकम्मंसे खवेइ, तओ पच्छा सिज्झइ, बुज्झइ, विमुच्चइ, परिनिवायइ, सवदुक्खाणमंतं करेइ ॥ ६१ ॥ व्याख्या - हे स्वामिंश्चारित्रसपन्नतया, चारित्रेण यथा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
| ॥। १०२२ ॥