________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा.
सटीक
॥१०२१॥
नसंपन्नतया जीवः सर्वभावाभिगम, सर्वे च ते भावाश्च सर्वभावा जीवाजीवादयस्तेषामभिगमः सर्वभावाभिगमस्तं सर्वभावाभिगमं जीवाजीवादितत्वज्ञानं जनयति. तथा ज्ञानसंपन्नो जीवश्चतुरंतसंसारकांतारे चतुर्गतिलक्षणे संसारवने न विनश्यति, मोक्षाद्विशेषेण दूरं नाऽदृश्यो भवति. यथा हि ससूत्रा सूची कचवरादिषु पतिता सती न नश्यति, अदृश्या न भवति, नाशं न प्राप्नोति, तथा जीवोऽपि ससूत्रः श्रुतज्ञानसहितः संसारे विनष्टो न भवतीति भावः ततश्च श्रुतज्ञानी विनयतपश्चारित्रयोगान् संप्राप्नोति. ज्ञानं च विनयश्च तपश्च चारित्रयोगाश्च ज्ञानविनयतपश्चारित्रयोगास्तान् सम्यक् प्रकारेण प्राप्नोति. तत्र ज्ञानमवध्यादि, विनयः प्रसिद्धः, तपो द्वादशविधं, चारित्रयोगाश्च चारित्रव्यापारास्तान् सर्वान् लभते. पुनः श्रुतज्ञानी स्वसमयपरसमयविशारदश्चसंघातनीयो भवति, स्वमतपरमतयोविज्ञत्वेन संघातनीयो मीलनीयः स्यात्. एतावता स्वमतपरमताभिज्ञत्वेन प्रधानपुरुपत्वात् पंडितेषु गणनीयो भवतीति भावः. ॥ ५९॥
॥ मूलम् ॥-दसणसंपन्नयाएणं भंते जीवे किं जणयइ ? सणसंपन्नयाएणं भवमित्थत्तच्छेयणं
का॥१०२१॥
For Private And Personal Use Only